________________
९२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वीरम्मन्यो न मन्येत, तवाज्ञां यदि चानुजः । तदा यदायुधीयानां, बुध्यते तद् विधीयताम् ॥१८०।। इत्मात्योदिते दूतं, दक्षस्तक्षशिलां प्रति ।
स वेगेन सुवेगाख्यं, निसृष्टार्थं विसृष्टवान् ॥१८१।। $$ अथास्खलद्गतिर्वायुरिवायं वेगतोऽगमत् ।
निवारितोऽपि शकुनैः, सुवेगो दूत्यदक्षिणः ॥१८२।। निम्नगा-नगर-ग्राम-कान्तार-गिरि-गह्वरान् । सुवेगः स लघूल्लध्य, बहलीदेशमासदत् ॥१८३।। श्रीमद्वाहुबलिस्वामियश:सुरभिताननैः ।। कान्तं वनान्तविश्रान्तैः, क्रीडद्गोपाङ्गनागणैः ॥१८४।। गायन्तीभिश्चरित्राणि, श्रीयुगादिजिनेशितुः । नन्दनादेत्य दैत्यारिस्त्रीभिः सान्द्रीकृतद्रुमम् ॥१८५।। अलङ्कारप्रभाभिन्नतमिश्रासु दिनेष्विव । तमिश्रास्वपि पान्थस्त्रीपाणिन्धमभवत्पथम् ॥१८६।। उपेत्य स्वर्गिणां स्वर्गादद्भुतश्रीदिदृक्षया ।
॥१८७|| पञ्चभिः कुलकम् ॥ असावासाद्य तं देशमपूर्वाद्भुतवैभवम् । जन्मान्तरमिव प्राप्तः, कृत्यं विस्मृतवानिव ॥१८८।। अथ तक्षशिलां बाहबलिबाहबलोजिताम । नगरी स गरीयस्याः , सम्पदः पदमासदत् ॥१८९।। पश्यन्नस्यामसौ पुर्यां, वैभवं भुवनाद्भुतम् । उन्मुखो ददृशे लोकैविक्रीतेभ्य इवोद्धृतः ॥१९०।। क्षणं प्राप्य नृसिंहस्य, सिंहद्वारं महीभुजः । तस्थौ रथादथोत्तीर्य, स्मरन्निव स वाचिकम् ॥१९१।। गच्छन्नथाग्रतश्चक्रिप्रताप इव मूर्तिमान् ।
तस्थौ राजकुलद्वारि, वारितो वेत्रिभिः क्षणम् ॥१९२।। १. "त्योदितैर्दूतं खंता० ॥ २. गो दौत्यद खंता० ॥ ३. 'नाजनैः खंता० पाता० ॥
20
D:\maha-k.pm5\2nd proof