________________
९०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सिञ्चन्निव सुधावृष्ट्या, वसुधामृषभप्रभुः । तानुवाच ज्वलत्क्रोधवह्नेरह्नाय शान्तये ॥१५४॥ "चपला चपलेव श्रीर्भात्यसौ भुवनान्तरे । कल्याणवाञ्छया वत्सास्तत् तां गृह्णीत किं मुधा ? ॥१५५॥ किञ्च स्व-सम्भवैर्भोगैर्या तृप्तिरभवन्न वः ।
सा मर्त्यभोगैरङ्गारकारकस्येव किं भवेत् ?" ॥१५६॥ [अङ्गारकारकदृष्टान्तः] ६६ तथाह्यम्भोदृति कश्चिद् , गृहीत्वाऽङ्गारकारकः ।
रीणवारिण्यरण्येऽगादङ्गारकरणोद्यतः ॥१५७॥ भीष्मग्रीष्मार्ककार्कश्यकृशानुकृतया तृषा । स तृप्ति नाप्तवान् सर्वं, पायं पायं पयो दृतेः ॥१५८॥ क्वचित् तरुतले सुप्तः, स्वप्ने सदनमागतः । परते इव पानीयं, समग्रमपि सोऽपिबत् ॥१५९॥ तथाऽप्यच्छिन्नतृष्णोऽयं, भ्रामं भ्रामं जलाशयान् । वह्निरौर्व इवापूर्वः, सर्वानुक्मशोषयत् ॥१६०॥ अथैकं कश्मलक्षारदुरापसलिलं मरौ । कूपं प्राप्य भ्रमन् मेने, प्रत्यक्षं क्षीरनीरधिम् ॥१६१॥ तत्रापि स तृषाऽऽक्रान्तः, पयसे कुशपूलकम् । संयोज्य रज्जुभिः क्षिप्त्वा, सरसं तरसाऽकृषत् ॥१६२॥ अतिनिम्नतया कूपः, कुभूप इव सेवकात् । यातः स्वदत्तमादत्त, सर्वस्वं तृणपूलकत् ॥१६३॥ पूलकादथ निश्चोत्य, पाश्चात्यास्तोयविपुषः । स चातक इवाम्भोदादुन्मुखस्तृषितः पपौ ॥१६४॥ तत् तृष्णा याऽस्य न च्छिन्ना, वारिधेरपि वारिभिः । किं सा निरङ्कशा पूलकुशाग्रपयसा त्रुटेत् ?" ॥१६५॥ युष्माकमपि तद् वत्साः !, या दिव्यैरपि नात्रुटत् । मर्त्यलोकभवैर्भोगैः, किं सा तृष्णा त्रुटिष्यति ? ॥१६६॥
25
D:\maha-k.pm5\2nd proof