________________
[८९
10
चतुर्थः सर्गः]
अभ्येत्याभ्येत्य भूपालैः, क्रमशः परिकल्पितम् । स भेजे चक्रवर्तित्वाभिषेकं द्वादशाब्दिकम् ॥१४१।। स पश्यन् स्वजनान् सर्वान् , सुन्दरी मन्दिरोदरे । ददर्श कर्शिताकारां, कलामिव कलावतः ॥१४२।। कृशत्वकारणं तस्याः, साक्षेपमथ भुभुजा । ऊचुनियोगिनः पृष्टा, नास्माकं देव ! दूषणम् ॥१४३।। प्रभोः षष्टिसहस्राब्दी, दिग्जयादिदिनादियम् । आचाम्लानि चकारोच्चैव्रतग्रहणसाग्रहा ॥१४४।। चक्रिणाऽथ व्रतायासौ, विसृष्टाऽष्टापदे गिरौ । दक्षा दीक्षां प्रभोः पार्श्वे, जगृहे गृहनिस्पृहा ॥१४५॥ चक्रिराज्याभिषेकेऽथ, तस्मिन् द्वादशवार्षिके । आगता-ऽनागतान् लोकान् , प्रभुत्वादवलोकयन् ॥१४६।। निजानुजाननायातान् , विज्ञाय न्यायवित्तमः । तान् प्रति प्रेषयामास, दूतान् भूतलवासवः ॥१४७।। युग्मम् ।। यदि राज्यार्थिनस्तद्भोः !, भरतं कुरुत प्रभुम् । दूतोक्तिमिति ते श्रुत्वा, जगदुर्भरतानुजाः ॥१४८।। विभज्य राज्यमस्माकमेतस्यापि भवत्प्रभोः । तातेन दत्तमस्मत्तः, स किमाच्छेत्तुमिच्छति ? ॥१४९॥ अधिकेन न न: कार्य, रक्षितुं स्वं स्वयं क्षमाः । अयोग-क्षेमकृत् तस्मान्नाथः कथमयं भवेत् ? ॥१५०॥ बलीयानथ यद्येष, नि:शेषद्वेषिशातनः । तदेतु वयमप्येते, पितुस्तस्यैव सूनवः ॥१५१॥ किन्तु तातमनापृच्छ्य, वयं स्वच्छन्दकारिणः । अग्रजेन समं क्रोधाद् , योद्धमीहामहे न हि ॥१५२॥ इत्युक्त्वाऽष्टापदे गत्वा, नत्वा निर्वृजिनं जिनम् ।
तत् ते भरतसन्दिष्टं, सर्वमूर्वीभुजोऽभ्यधुः ॥१५३॥ १. स्वयं स्वच्छन्दकारिणा खंता० ॥
15
20
D:\maha-k.pm5\2nd proof