________________
5
10
15
20
25
८८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सुखं सैन्यरजः कीर्णा, तुरङ्गैरुदतारि या ।
कष्टं मदाम्भोगम्भीरा, सैव शैवलिनी द्विपैः ॥१२८॥ रथाश्चेलुर्जवाद् भूमेर्भ्रमयन्तो ध्वजांशुकम् । पत्तयोऽप्यनुकुर्वाणाः, कृपाणावर्तनैरिमान् ॥१२९॥ गौरसप्राभृतभृतो, ग्रामवृद्धान् पदे पदे । भूपः स्वयमभाषिष्ट, तद्भाषा-मौग्ध्यकौतुकी ॥१३०॥ इति क्ष्मापश्चमूरेणुपूरैः पिहितभानुभिः । एकच्छत्रामिव भुवं, निर्माय स्वपुरीं ययौ ॥ १३१ ॥ बिम्बितान् रत्नवप्राग्रे, तदा पौरैश्चमूचरान् । आरोहत इवारूढैरदृष्ट्वा हृष्टैः करोऽर्पितः ॥१३२॥ अभ्युद्यातस्ततः प्रातर्गौरवात् पौर- मन्त्रिभिः । सैन्यैरनुगतः पुण्ये, मुहूर्ते कृतमङ्गलः ॥१३३॥ स्फुरत्कपाटपक्ष्माढ्यप्रतोलीनेत्रवर्त्मना । अथाविशत् पुरस्तस्या, हृदि सौभाग्यभूर्नृपः ॥ १३४॥ युग्मम् ॥ बन्दिवृन्दमुखाम्भोजस्फुरत्षट्पदशब्दितैः । भासुराभ्युदयो भाभिर्दिवाकर इवापरः ॥१३५॥ पश्यन्तीनां पुरो हारयष्टियुग्मेऽपि बिम्बितः । हृदि स्फुटीभवत्कामद्वितीय इव योषिताम् ॥१३६॥ व्यालोलानिव कल्लोलानानन्दक्षीरनीरधेः । पश्यन् वातेरितान् केतुपटाननुनिकेतनम् ॥१३७॥ भासुरं रभसाऽऽरब्धवाद्य-नृत्तादिकौतुकैः । कृतमाङ्गलिकं लोकं, मञ्चे मचे कृतार्थयन् ॥१३८॥ बालाः पुत्रीरिव तदा, सुप्रौढा भगिनीरिव । जननीरिव वृद्धास्तु निर्विकारं विलोकयन् ॥१३९॥ समाससाद सदनं, सदनन्तगुणो नृपः । अमन्दानन्दसन्दोहकन्दो हरिपराक्रमः || १४०|| षड्भिः कुलकम् ||
१. 'नृत्यादि' खंता० ॥ २. 'तुकी पाता० । 'तुकम् खंता० ॥
D:\maha-k.pm5 \ 2nd proof