________________
चतुर्थः सर्गः ]
प्रणष्टेऽथ बले प्रौ, विद्याधरनरेश्वरौ । भरतेशं नमस्कृत्य, भक्तितो वाचमूचतुः ॥ ११५।। त्वं क्षमस्व क्षमास्वामिन्नेतद् दुर्वृत्तमावयोः । प्रणिपातावधिः क्रोधः, सतां हि परिकीर्तितः ॥ ११६ ॥
स चिरत्नानि रत्नानि, नमिर्नमितमस्तकः । ढौकने ढौकयामास, क्षमाशक्राय चक्रिणे ॥११७॥ स्त्रीरत्नेनाथ कन्दर्पजगज्जयपताकया ।
स्थापत्येन भुवः पत्ये, प्राभृतं विनमिर्व्यधात् ॥११८॥ एतौ च सुतयोर्न्यस्य, विद्याधरधुरीणताम् । गृहीतदीक्षौ तीर्थेशसेवामेवाथ चक्रतुः ॥११९॥ अथ त्रिपथगातीरे, सैन्यं न्यस्य नरेश्वरः । असाधयत् सुषेणेन, गाङ्गमुत्तरनिष्कुटम् ॥१२०॥ तं चाष्टमतपःसम्पल्लम्पटीकृतमानसा । उपतस्थे स्वयं गङ्गादेवी विविधढौकनैः ॥१२१॥ तदाऽसौ नृपमालोक्य, तस्मिन्नेवानुरागिणी । ईर्ष्ययेवेषुभिर्जघ्ने, विषमैर्विषमेषुणा ॥१२२॥ असौ तत्रैव तत्प्रेमवारिवारणतां गतः । निनाय नायको भूमेः, सहस्राब्दीं घटीमिव ॥ १२३॥ अथ खण्डप्रपाताख्यां, गुहामभ्येत्य भूपतिः । नाट्यमालं सुरं तत्र, साधयामास पूर्ववत् ॥ १२४॥ गुहां तामप्यतिक्रम्य, तमिश्रावन्नरेश्वरः । सैन्यं निवेशयामास, सैकते सौरसैन्धवे ॥१२५॥ तत्राष्टमेन तपसाऽसाधयद् वसुधाधवः । निधीन् यक्षसहस्रेण, प्रत्येकं कृतसन्निधीन् ॥१२६॥ साधयित्वा सुषेणेन, गङ्गादक्षिणनिष्कुटम् । नृपोऽचालीदथायोध्यां, प्रति सिंहो गुहामिव ॥१२७॥
D:\maha-k.pm5\ 2nd proof
[ ८७
5
10
15
20
25