________________
८४]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तं समायान्तमालोक्य, भिल्लाः सम्मुखगामिनः । पतङ्गा इव रङ्गन्तः, प्रदीपस्य विरेजिरे ॥७६।। सौवर्णं फलकं बिभ्रत , कालक्ररासिभासुरम् । सुषेणोऽभाज्जितं दीप्त्या, दिनेशमिव साङ्गजम् ॥७७।। सोढुं प्रतापमेतस्य, क्षमायामक्षमा अमी । सिन्धोस्तीरगता गोत्रदेवताराधनं व्यधुः ॥७८।। तेषामाराधनेनाथ, सुरा मेघमुखाभिधाः । एत्य प्राहुरहो वत्साः !, किमारब्धमिदं मुधा ? ॥७९॥ दूरे वयमयं जेतुं , शक्रेणापि न शक्यते । अलङ्घ्यशासनश्चक्री, पृथिवीपाकशासनः ॥८०॥ तथापि वयमेतस्य, युष्माकमनुरोधतः । उपसर्ग करिष्याम, इत्युक्त्वा ते तिरोऽभवन् ॥८१।। अथ मेघमुखैर्देवैर्घनडम्बरमम्बरे । विचक्रे चक्रिसैन्योर्ध्वं, दिगन्तातङ्ककारणम् ॥८२।। रसन्तो विरसं मेघा, भुक्तं वाधैर्जलैः समम् । उद्वमन्तो व्यलोक्यन्त, वाडवाग्नि तडिच्छलात् ॥८३।। धारामुशलपातेन, खण्डयन्त इव क्षितिम् । राक्षसा इव तेऽभूवन् , घना भीषणमूर्तयः ॥८४।। चर्मरत्नमथो चक्री, यावद्वादशयोजनीम् । पाणिस्पर्शेन विस्तार्यारोहत् सह चमूचरैः ॥८५॥ छत्ररत्नमथाप्युच्चस्तावन्मात्रं नभोङ्गणे । चर्मरत्नस्थलोकानामुपरिष्टाद् व्यजृम्भत ॥८६।। छत्रदण्डोपरिन्यस्तमणिरत्नप्रभावतः । शममन्तस्तमः प्राप, सम्पुटे च्छत्र-चर्मणोः ॥८७।। प्राप्तरुप्तानि धान्यानि, गृहिरत्नेन चर्मणि । निष्पत्तिमापुः सन्ध्यायां, तथा शाक-फलाद्यपि ॥८८।।
D:\maha-k.pm5\2nd proof