________________
[८३
10
चतुर्थः सर्गः]
कपाटे अपि ते सद्यो, दण्डघातेन रंहसा । पश्चादभूतां वीरस्य, पक्षद्वयबले इव ॥६३।। वाजिनं विनिवाथ, प्रतिलोमं चमूपतिः । राज्ञे विज्ञपयामास, कपाटोद्घाटनक्रियाम् ॥६४।। सिन्धुरस्कन्धमारूढः, पुरतो भरतेश्वरः । मणिरत्नं समारोप्य, तमःशमनहेतवे ॥६५।। प्रविवेशे गुहागौं, समं निजचमूचरैः । तारकानिकरैः साकमभ्रान्तरिव चन्द्रमाः ॥६६॥ युग्मम् ॥ मार्गे चैकोनपञ्चाशन्मण्डलानि चकार सः । लोकालोकाय काकिण्या, वाम-दक्षिणपक्षयोः ॥६७।। उन्मग्नां च निमग्नां च, नद्यौ वीक्षितवानथ । तरत्यश्माऽपि पूर्वस्यां, नान्यस्यां तूलमप्यहो ! ॥६८॥ बद्धया वर्धकेर्बुद्ध्या, पद्यया सोऽनवद्यया । समुत्ततार ते नद्यौ, यमभ्रूभङ्गभङ्गुरे ॥६९॥ अथोत्तरगुहाद्वारकपाटप्रत्तनिर्गमः । सचक्रः स व्रजन् रेजे, सभानुरिव वासरः ॥७०।। स तां गुहामतिक्रम्य, भरतार्धमथोत्तरम् । विवेश जेतुं कान्तारमिव सिंहोऽतिरंहसा ॥७१।। तत्र चापातमात्रेऽपि, जनतावासहेतवः । मानिनो धनिनः शूराः, क्रूराकार-पराक्रमाः ॥७२।। कालाः कालायसेनेव, क्लृप्ताङ्गा भिल्लभूभुजः । अदृष्टपूर्वाभिभवा, वसन्त्यापातसञकाः ॥७३॥ युग्मम् ।। किरातैरथ युद्धाय, सन्नद्धायतपत्तिभिः । चक्रिणः कृपणीचक्रे, चमूचक्रं रणाङ्गणे ॥७४॥ ततः सुषेणसेनानी:, सेनानीरनिधेविधुः ।
तुरङ्गरत्नमारूढः, खड्गरत्नकरोऽचलत् ॥७५।। १. सार्धम खंता० ॥
20
25
D:\maha-k.pm5\2nd proof