________________
८२]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दक्षिणेऽथ नितम्बेऽस्य, स्तम्बेरममनोरमाम् । चमूममूमुचदमूममूढक्रमविक्रमः ॥५०॥ राजाऽष्टमं तपस्तेने, तेनाथ चलितासनः । आययौ मङ्घ वैताढ्यकुमारोऽवधिबोधितः ॥५१॥ प्रौढानि ढौकयित्वाऽथ, ढौकनान्येष चक्रिणे । अद्यादि तव दासोऽहमित्युदित्वा जगाम च ॥५२॥ प्रकल्पिताष्टमतपःपारणेनाथ भूभुजा । अष्टाह्निकोत्सवादूर्ध्वमादिश्यत चमूपतिः ॥५३॥ सुषेण ! गच्छ वैताढ्य-सिन्धुदक्षिणनिष्कुटम् । शाधि निर्बाधमुत्तीर्य, निम्नगां चर्मरत्नतः ॥५४॥ इत्यादेशमथासाद्य, माद्यत्करिकुलाकुलैः । सार्धमर्धीकृतैः सैन्यैः, सुषेणो निम्नगामगात् ॥५५।। नदीमदीनसत्कर्मा, चर्मानद्धेन वर्त्मना । अथोत्ततार सेनानी, रसेनानीतसम्मदः ॥५६॥ सिंहलान् सिंहतुल्यौजा, बर्बरान् गर्वपर्वतः । यवनान् यवनाश्वश्रीः, कालः कालमुखान् रणे ॥५७॥ अपरानपि राजश्रीजनको योनकादिकान् । पराजिग्ये सुखेनैव, सुषेणध्वजिनीपतिः ॥५८॥ युग्मम् ॥ जित्वेति सिन्धुमुत्तीर्य, कीर्यमाणयशा जनैः । चक्रिणो ढौकयाञ्चक्रे, तद्दण्डान् दण्डनायकः ॥५९॥ तत्तमिश्रागुहाद्वारकपाटोद्धाटनाय सः ।। आदिष्टश्चक्रिणा चक्रे, गत्वा तत्राष्टमं तपः ॥६०॥ कृतमालाभिधं देवमथोद्दिश्य चमूपतिः । तमिश्राकन्दरद्वारि, वितेनेऽष्टाहिकामहं ॥६१।। हयारूढः प्रणम्याथ, कपाटे कन्दरामुखे ।
जघान दण्डरत्नेन, करेणेव तमोऽशुमान् ॥६२।। १. योन्नका० खंता० ॥
20
25
D:\maha-k.pm5\2nd proof