________________
[८१
चतुर्थः सर्गः]
तं विसृज्य प्रसन्नेन, रथोऽथ पृथिवीभुजा । जवादवाल्यताम्भोधेः, संरम्भाच्च मनोरथः ॥३८॥ प्राप्तोऽथ मापकोटीरः, कटकं जितकण्टकः । मागधाधीशमुद्दिश्य, स्पष्टामष्टाहिकां व्यधात् ॥३९॥ अथानुचक्रं चलिता, चक्रवर्तिचमूस्तदा । तटं जगाम सङ्ग्रामदक्षिणा दक्षिणोदधेः ॥४०।। वरदामाधिनाथोऽपि, तत्र मागधनाथवत् । विगृह्य जगृहे दण्डमखण्डं चक्रवतिना ॥४१॥ विहिताष्टाहिकस्तत्र, चक्रमार्गानुगः क्रमात् । विपश्चित् पश्चिमं प्रापत् , तीरं नीरनिधेरयम् ॥४२॥ प्रभासान्द्रः प्रभासेन्द्रं, जित्वा तत्रापि पूर्ववत् । चिन्तारत्न-शिरोरत्न-सुवर्णादीन्यदण्डयत् ॥४३॥ तत्कृताष्टाहिक: श्रीमाननुचक्रं चलबलः । ययौ चक्री महासिन्धुसिन्धोदक्षिणरोधसि ॥४४।। पूर्ववत् पौषधागारे, विरचय्याष्टमं तपः । असावसाधयद् वेगादेव तां सिन्धुदेवताम् ॥४५।। अथ सा नभसाऽभ्येत्य, रभसा भरतेश्वरम् । ऊचे तवाहं राजेन्दो !, किङ्करेव करोमि किम् ? ॥४६।। अथो यथावदाधाय, प्राभृतं सा भृतं श्रिया । जगाम चामरीभतमक्ताताडङ्दीधितिः ॥४७|| तत्रापि तापितारतिर्विहिताष्टाहिक: क्रमात् । प्राची प्रति चचालायं, चक्रानुचरसैनिकः ॥४८।। तटीर्बिभ्राणमद्वैताः, वैताढ्यमगमन्नगम् । भरतार्धद्वयीसीमारूपं भरतभूपतिः ॥४९॥
१. क्षिणाम्बुधेः खंता० पाता० ॥ २. प, तीरं पाता० ॥ ३. 'ष्टाह्निकः खंता० पाता० । एवमग्रेऽपि ॥
D:\maha-k.pm5\2nd proof