________________
5
10
15
20
25
८० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ व्यालोकयामास, तन्मन्त्री तस्य पत्रिणः । अक्षराणि फले दूतजिह्वायामिव शुद्धधीः ॥ २५ ॥ वृषभस्यादिदेवस्य, सूनुर्भरतचक्रभृत् । इत्यादिशति वो दण्डं, दत्त राज्ये स्पृहा यदि ॥२६॥ वर्णानिमानमात्येन्द्रः, प्रबलोऽप्यवलोक्य सः । मुमोच मदमुद्दामः, प्रेक्ष्य मन्त्रमिवोरगः ॥२७॥ पतिं प्रति प्रतिज्ञातत्यागहेतोरदोऽवदत् । स्वामिन् ! विमुञ्च संरम्भमम्भः पतिरिव प्रगे ॥२८॥ असावसमशौडीर्यश्चक्री भूचक्रभूषणम् ।
भरतो भरतक्षेत्रपतिश्चिक्षेप सायकम् ॥२९॥ एतस्य भागधेयानि, मागधेश ! विरेजिरे । प्रतिवासरवर्द्धनि, स्पर्द्धनि प्रथमेन्दुना ||३०|| अनल्पोऽपि हि कल्पान्ते, क्षीयते क्षीरनीरधिः । सुपर्वपर्वतः सोऽपि, कम्पतेऽहर्पतिः पतेत् ॥३१॥ पोत्री धात्रीतलं, मुञ्चेत्, पविश्छविमथ त्यजेत् । अङ्गभङ्गमसौ किन्तु, भजेन्न हि महाभुजः ||३२|| अस्मै षण्मेदिनीखण्डमण्डनाय महीभुजे । दण्डमुद्दण्डकोदण्डदोर्दण्डाय प्रयच्छ तत् ॥३३॥ निशम्य सम्यगित्येष, वचनं सचिवेशितुः । समं भुजामृतां तत्या, तत्याज परुषां रुषम् ॥३४॥ तत्काण्डदण्डं दण्डं च, समादाय समागतः । नत्वा श्रीभरतं वाचमित्युवाच स मागधः ||३५|| ममैव पुण्यनैपुण्यं, ममैव प्रगुणा गुणाः । तेजस्वी यस्य नाथस्त्वमम्भोजस्येव भास्करः ||३६|| अतः परं गतः पारं, सिन्धोरप्यस्मि ते वशः । जानीहि मां हिमांशुश्रीश्चकोरमिव सेवकम् ॥३७॥ १. किञ्चिद् भ खंता० ॥ २. समागधः वता० ॥
D:\maha-k.pm5 \ 2nd proof