________________
चतुर्थः सर्गः ]
चक्रे पौषधशालां च विशालां रत्नशालिनीम् । वर्धकिर्वर्धितानन्दश्चक्रिणः पुण्यपुञ्जवत् ॥१२॥ तस्यामुत्तीर्य सद्वीर्यः, कुञ्जराद् राजकुञ्जरः । प्रविवेश नभोदेशमिवार्कः पूर्वपर्वतात् ॥१३॥ दर्भसन्दर्भनिष्पन्नस्रस्तरे त्रस्तपातकः । उपवासत्रयं चक्रे, तत्र वक्रेतराशयः ॥ १४ ॥ अथ प्रथितचातुर्यस्तुर्येऽहनि महामहाः । सुगन्धिभिर्जलैः स्नातो, बली बलिविधिं व्यधात् ॥१५॥ सर्वाण्यस्त्राण्युपादाय, शक्रदायादविक्रमः । अथारूढो रथं चक्री, गरुत्मन्तमिवाच्युतः ॥ १६॥ नाभेयभू रथं नाभिद्वयसे पयसि स्थिरम् । विरच्यय समुद्रान्तः, समुन्मुद्रितकार्मुकः ॥१७॥ सौवर्णं विस्फुरद्वर्णं, नामाङ्कितमथो शरम् । पुङ्खमध्यमुखाधीशसुपर्णभुजगासुरम् ॥१८॥ दिशि मागधतीर्थस्य, पत्युरत्युज्ज्वलाकृतिम् । क्ष्मापश्चिक्षेप साक्षेपं, विद्युद्दण्डमिवाम्बुदः ||१९|| विशेषकम् ॥ सभायां मागधेशस्य, पक्षसूत्कारदारुणः ।
स चेषुर्वेगसम्पन्नः, पन्नगारिरिवापतत् ॥२०॥
अथ भ्रकुटिभीमास्य, सलास्याधरपल्लवः । बालार्कशोणदृक्कोणः, प्राह मागधतीर्थप: ॥२१॥
जिघृक्षुः को हरेर्दंष्ट्रां ?, कः क्षेप्ता ज्वलने पदम् ? । भ्रान्तारघट्टचक्रारमध्ये कः कुरुते करम् ? ||२२|| क एष मयि नि:शेषशस्त्रविस्तृतकौशले । अक्षिपन्मार्गणं मृत्युमार्गमार्गणदूतवत् ? ||२३|| इत्युत्तस्थौ समं वीरैर्धीरैः कोपातिपाटलैः । स निस्त्रिंशैः स्फुरद्भूमैर्ध्वालावर्तैरिवानलः ॥२४॥ १. 'वर्णवि' खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ७९
5
10
15
20
25