________________
चतुर्थः सर्गः]
[८५ अन्नैः शाकैः फलाद्यैश्च, गृहिरत्नप्रभावतः । सद्यः प्रतिगृहं प्राप्तैर्लोकः स्वर्गीव सोऽभवत् ।।८९।। तरदण्डमिवालोक्य, तल्लोकैः सम्पुटं जले । भुवनेषु कृता शङ्के, ब्रह्माण्डमिति कल्पना ॥९०॥ सप्तमेऽह्नि व्यतिक्रान्ते, चक्री चिन्तामिति व्यधात् । प्रत्यनीकं ममाप्युच्चैः, प्रत्यनीको नु कोऽम्बुदः ? ॥९१।। अथ तस्य प्रभोश्चित्तानुवर्तनपराः सुराः । सहस्राः षोडशाप्युद्यद्धृकुटीभङ्गभीषणाः ॥९२॥ गत्वा मेघमुखान् देवान् , नैत्रारुणविभानिभात् । उगिरन्त इव क्रोधमिदं वचनमचिरे ॥१३॥ अरे रे ! केन वो दत्ता, दुर्दैवेनेदृशी मतिः ? । चक्री न यदि दृष्टोऽयं, तत् किं नाम्नाऽपि न श्रुतः ? ॥९४।। यात तद् दूरतः क्रूरा: !, नैव यावदयं प्रभुः । दम्भोलिनेव चक्रेणाभिहन्ति भवतां शिरः ॥१५॥ इति यक्षवचः श्रुत्वा, तैर्दुतं विद्रुतं ततः । दुग्धधौतमिव व्योम, वैमल्यमभजत् तदा ॥९६।। ढौकने स्वर्ण-माणिक्य-गज-वाजिव्रजानथ । आदाय म्लेच्छपाः सर्वे, भरतं शरणं ययुः ॥९७।। भरतोऽपि प्रसद्यैतान् , विससर्ज महाशयः । नतेषु पक्षपातित्वमुत्तमानां हि लक्षणम् ॥१८॥ सिन्धोरथोत्तरं वार्धिगिरिसीमान्तनिष्कुटम् । जित्वा सुषेणतश्चक्री, ययौ क्षुद्रहिमालयम् ॥९९।। दक्षिणेऽथ नितम्बेऽस्य, न्यस्य सैन्यं नरेश्वरः । व्यधादुद्दिश्य हिमवत्कुमारं स तपोऽष्टमम् ॥१००। रथारूढोऽष्टमान्तेऽथ, रथाग्रेण हिमाचलम् । त्रिस्ताडयित्वा हिमवत्कुमारस्येषुमक्षिपत् ॥१०१॥
D:\maha-k.pm5\2nd proof