________________
तृतीयः सर्गः]
[७५ स्वयमेवाथ पश्यन्त्यास्तस्यास्तद् वैभवं विभोः । विलीनं मनसा सद्यः, परानन्दामृतद्रवैः ॥३३२॥ तदैव केवलज्ञानं, तस्याः प्रादुरभूत् ततः । प्राप्येव तपसा मातुः , प्रभुणा प्राभृतीकृतम् ॥३३३।। अन्तकृतकेवलीभूय, लोकान्तमथ साऽगमत् । मन्ये मुक्तिपुरद्वारमपवारयितुं पुरः ॥३३४॥ अस्मामस्यावसर्पिण्यां, प्राच्यसिद्धस्य तद् वपुः । त्रिदशैनिदधे तूर्णं, सत्कृत्य क्षीरनीरधौ ॥३३५।। ततः प्रभृति लोकेषु , वृत्तं मृतकपूजनम् । सर्वो हि दर्शितां पूर्वैर्वर्तनीमनुवर्तते ॥३३६॥ व्याप्तोऽथ हर्ष-शोकाभ्यां, बद्धस्पर्धं धराधवः । निशां प्रान्त इव ध्वान्त-प्रकाशाभ्यामभूत् समम् ॥३३७।। पत्तिर्विमुक्तच्छत्रादिर्दूरादूरीकृताञ्जलिः । देशनासदनस्यान्तः, प्रविवेश विशांपतिः ॥३३८।। त्रिश्च प्रदक्षिणीकृत्य, नमस्कृत्य जगद्गुरुम् । यथास्थानं निविष्टोऽथ, प्रहृष्टो भरतेश्वरः ॥३३९।। अथाऽऽयोजनगामिन्या, सर्वभाषानुरूपया।
गिरा जगद्गुरुस्तत्र, विदधे धर्मदेशनाम् ॥३४०॥ 8 "असावसारसंसारवनसेचनसारणिः ।
दूरेण युज्यते त्यक्तुं, मोहनिद्रा महात्मनाम् ॥३४१॥ मोहभिल्लेशपल्लीव, तदिदं भवकाननम् । पुण्यरत्नहरैः क्रूरैश्चौरै रागादिभिर्वृतम् ॥३४२॥ अनाविले कुले जन्म, दुर्लभेभ्योऽतिदुर्लभम् । चिन्तारत्नमिव प्राप्य, हार्यते किं मुधा बुधाः !? ॥३४३॥ यतध्वमपवर्गाय, तन्निविण्णा भवाद् यदि ।
स हि सर्वापदां पारमपारानन्दमन्दिरम् ॥३४४॥ १. निशाप्रा खंता० ॥ २. अथ यो खंता० ॥ ३. °भ्योऽपि दुर्ल' खंता० पाता० ।।
25
D:\maha-k.pm5\2nd proof