________________
७६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्राप्यते प्राणिभिर्नायं, धर्मस्याराधनं विना । किं कदापि क्वचिद् दृष्टस्तरुहीनः फलोद्गम: ? ॥३४५॥ तस्य सुश्रमणो वा स्यान्मूलोत्तरगुणोत्तरः । श्राद्धो वाऽऽराधकः सम्यक्, सम्यक्त्वा-ऽणुव्रताददिभृित् ॥३४६॥ एतौ मोक्षस्य पन्थानौ, मन्थानौ भववारिधेः । कामं श्रामण्य-गार्हस्थ्यधर्मी शाश्वतशर्मदौ ॥३४७॥ यानि चक्रिपदादीनि, स्पृहणीयानि देहिनाम् । असौ कुसुमसम्पत्तिस्तस्य धर्ममहीरुहः ॥३४८॥ फलं तु परमानन्दरसनि:ष्यन्दसुन्दरम् । महोदयमयं किञ्चिल्लोकोत्तरमनश्वरम्" ॥३४९॥ श्रुत्वेति देशनां भर्तुर्भरतस्याङ्गजन्मभिः । शतैः पञ्चभिरानन्दन्नप्तृभिः सप्तभिः शतैः ॥३५०।। तथा सोदरया ब्राहया, परब्रह्मार्पितात्मभिः । तैस्तैर्ऋषभसेनाद्यैः, साग्रहैर्जगृहे व्रतम् ॥३५१॥ युग्मम् ॥ दीक्षां तदाऽऽददे किञ्च, मरीचिश्चक्रिनन्दनः । सादरं सुन्दरी किन्तु , चक्रिणा वारिता व्रतात् ॥३५२॥ व्रतिनः पुण्डरीकाद्याः, साध्व्यो ब्राह्मीपुरःसराः । श्राद्धाः सोमात्मजप्रष्ठाः, श्राविकाः सुन्दरीमुखाः ॥३५३॥ इत्थं चतुर्विधः सङ्घः, स्थापितः प्रभुणा तदा । पूज्यतेऽद्यापि विश्वेऽस्मिन् , देव-दानव-मानवैः ॥३५४।। श्रीपुण्डरीकमुख्यानां, यतीशानां जगद्गुरुः । ततश्चतुरशीतेरप्यादिदेश पदत्रयीम् ॥३५५।। तेऽप्युत्पाद-व्यय-ध्रौव्यरूपां प्राप्य पदत्रयीम् । वितेनुरद्भुतप्रज्ञा, द्वादशाङ्गानि लीलया ॥३५६।। शक्रानीतैरथो दिव्यैस्तूर्णं चूर्णैर्जगत्प्रभुः ।
अनुयोग-गणानुज्ञे, यच्छंस्तानभ्यषिञ्चत ॥३५७॥ १. श्रवणो वता० ॥ २. क्त्वादिव वता० ॥
D:\maha-k.pm5\2nd proof