________________
७४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दिष्ट्याऽद्य वर्धसे देव !, कानने शकटानने । उत्पेदे केवलज्ञानं, युगादिजगदीशितुः ॥३२०।। व्यजिज्ञपद् द्वितीयोऽथ, ख्यातः शमकसञ्ज्ञया । आविरासीत् प्रभो ! चक्ररत्नमद्यास्त्रमन्दिरे ॥३२१।। मह:सहजमाहात्म्यविध्वस्तात्मविरोधिनः । पूर्वं प्रभोर्वा कुर्वेऽहमर्चा चक्रस्य वा स्वयम् ? ॥३२२।। क्व वा जगत्त्रयत्राता, तातः शातितकल्मषः ? । क्व चैनसां निधिश्चक्रं, भुवनैकभयङ्करम् ? ॥३२३॥ पारितोषिकदानेन, विसृज्य मुदितौ च तौ । मरुदेवामुवाचैवं, भरतो हर्षनिर्भरः ॥३२४। विशेषकम् ॥ मातः !, सुतवियोगेन, त्वं सदा दुःखतः पुरा । रूक्षाक्षरं समादिक्ष, परं पश्य सुतश्रियम् ॥३२५।। पितामहीं महीनाथस्तदेत्युक्त्वाऽधिरोप्य च । । कुञ्जरे स्वयमारोहत् , कृतकौतुकमङ्गलः ॥३२६।। अथ व्रजन् गजारूढो, मरुदेवीमुवाच सः । मातराकर्ण्यतामेतत् , पुत्रस्य विभुताद्भुतम् ॥३२७।। "रूप्य-कल्याण-माणिक्यमयवप्रत्रयावृतम् । देशनासदनं चक्रुः, शक्रादेशेन नाकिनः ॥३२८॥ अयं वृन्दारकैर्बन्दिवृन्दैरिव जयध्वनिः । त्वत्पुत्रस्य पुरो मातः !, क्रियमाणो विभाव्यते ॥३२९॥ अयमम्भोधरध्वानगभीरो दुन्दुभिध्वनिः । मातस्तनोति सोत्सेकाः, केकाः काननकेकिनाम्" ॥३३०॥ श्रुत्वेति मरुदेवायास्तदाऽऽनन्दाश्रुवारिभिः । नेत्रयोर्नीलिकातङ्कपङ्कः प्रक्षालितः क्षणात् ॥३३१॥
20
१. शान्तित पाता० ॥ २. ध्यात्वेति तुष्टिदानेन खंता० ॥ ३. स्तदित्यु वता० पाता० ॥ ४. सुतस्य खंता० ॥
D:\maha-k.pm5\2nd proof