________________
10
तृतीयः सर्गः]
[७३ इतश्च भरतो भक्तिभरतो मातरं पितुः । तदाऽगमन्नमस्कर्तुं , स्वकुलस्येव देवताम् ॥३०७।। तां च पुत्रवियोगेन, श्रवदश्रुपयःप्लवैः । उन्मीलन्नीलिकालुप्तदर्शनां जननीं प्रभोः ॥३०८।। पौत्रो ज्यायानयं मातर् !, नमति त्वत्पदाम्बुजम् । विज्ञप्यैवं नमस्कृत्य, भरतः पुरतोऽभवत् ॥३०९॥ युग्मम् ॥ अथ पुत्रप्रवासेन, समं प्रोषितसम्मदा । उच्छलच्छोककल्लोलकल्यया साऽवदद गिरा ।।३१०॥ "वत्स ! स्वच्छन्दमानन्दमेदुरां त्वं श्रितः श्रियम् । मदीयः पुत्रको गात्रमात्रस्तु वनवास्यभूत् ॥३११॥ शरीरं सुकुमारं तद् , यत् तेन तपसोऽर्पितम् । रम्भास्तम्भो गृहस्थूणास्थाने तद् विनिवेशितः ॥३१२॥ क्व तास्तस्य सुरस्त्रीणामास्पदं सुखम्पदः ? । क्वेदानीं शीत-वातादिपुष्टा कष्टपरम्परा ? ॥३१३॥ नैवासनं न वसनं, न गृहं न परिच्छदम् । अवगच्छामि वत्सस्य, जीवाम्यद्यापि पापिनी" ॥३१४॥ तामित्थमथ सोचन्तीममुञ्चन्ती कदाग्रहम् । अभ्यधाद् भरतो मातस्तातस्य त्वं जनन्यसि ॥३१५।। विज्ञाऽपि किमविज्ञेव, सुतवात्सल्यमोहिता । विचिन्तयसि तातेऽपि, मातर् ! मानवमात्रताम् ? ॥३१६।। 20 स हित्वा लौकिकी लक्ष्मी, लिप्सुर्लोकोत्तरां श्रियम् ।। यद् विधत्तेऽधुना मातः !, फलं त्वं तस्य पश्यसि ॥३१७।। हृद्यामिति समासाद्य, वाक्सुधां वसुधाभुजः । मरुदेवाऽभवद् यावन्निविषादविषोदया ॥३१८।। ज्ञापितौ वेत्रिणा तावत् , पुरुषौ द्वौ समीयतुः ।
25 तयोराद्योऽवदन्नाम्ना, यमको घटिताञ्जलिः ॥३१९।। १. वाशनं खंता० ॥ २. ञ्चती क' वता० ॥ ३. द्वावुपेयतुः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof