________________
७२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हृद्ये करोति हृद्येव, देवस्तव सदा पदम् । मा विषादनिषादस्य, सुखदस्योर्वशो भव ॥२९४।। पदानि पद्म-कुलिशा-ऽङ्कशाङ्कानि जगद्गुरोः । एतानि तानि भूखण्डमण्डनानि नमस्कुरु ॥२९५।। सचिवस्य वचः कृत्वा, तथेति पृथिवीपतिः । धर्मचक्रमिह त्रुट्यत्कर्मचक्रः प्रचक्रमे ॥२९६।। नभोरत्नसपत्नोरुरत्नराजिविराजितम् । तद् विधाय व्यधादेष, स्पष्टामष्टाह्निकामिह ॥२९७।। अष्टयोजनविस्तीर्णे, चक्रेऽस्मिन् योजनोन्नते । सहस्रारे सहस्राणि, यामिकानां नृपोऽमुचत् ।।२९८।। ततश्च भगवान् भास्वाँस्तमःशमनकर्मठः । विहरन् म्लेच्छदेशेषु , पङ्कशेषमशेषयत् ॥२९९।। अथ वर्षसहस्रान्ते, घस्रान्त इव चन्द्रमाः । पुरं पुरिमतालाख्यं, प्राचीमुखमिवागमत् ॥३००।। अयोध्याया महापुर्यास्तस्मिन् शाखापुरे स्थितः । फाल्गुने मासि कृष्णाणां, प्रभुरेकादशीतिथौ ॥३०१।। तदानीमुत्तराषाढावस्थिते सितदीधितौ । अवाप केवलज्ञानं, शुक्लध्यानधनो जिनः ॥३०२।। ततश्चासनकम्पेन, समीयुस्तत्र वासवाः । अथाकारि चमत्कारि, त्रिदशैर्देशनासदः ॥३०३॥ प्रविश्य पूर्वद्वारेण, नत्वा तीर्थ च तीर्थकृत् । सिंहासनमलञ्चक्रे, दक्षिणः सप्रदक्षिणम् ॥३०४।। यथास्थानं निविष्टेषु , सभालोकेषु वासवः । गत्वाऽन्तरुत्तरद्वारा, चकार त्रिः प्रदक्षिणम् ॥३०५।। अथ स्तुत्वा नमस्कृत्य, कृतकृत्यः सुरेश्वरः ।
प्रभोरुपासनाहेतोरासन्नासनमासदत् ॥३०६।। १. 'षु, पापपङ्कमशोषयत् खंता० । “षु, कर्मपङ्कमशोषयत् पाता० ॥
20
25
D:\maha-k.pm5\2nd proof