________________
तृतीयः सर्गः ]
हतदुन्दुभयो रत्न- पुष्प- गन्धोदकादिम् । विधाय भूतले देवाश्चेलोत्क्षेपमथ व्यधुः ||२८१॥ प्रभोः शुक्लतृतीयायां, वैशाखेऽजनि पारणम् । तदक्षयतृतीयाख्यं, पर्व सर्वत्र विश्रुतम् ॥ २८२॥ किमेतदिति सोत्कर्षं, पृच्छते स्वच्छचेतसे । राज्ञे प्राज्ञेन विज्ञप्तं, प्राग्वृत्तं तेन सूनुना ॥ २८३॥ कल्प्या-ऽकल्प्यविचारं च, जातजातिस्मृतिः कृती । अपशोकाय लोकाय, श्रेयांसः श्रेयसेऽदिशत् ॥ २८४॥ नाथपारणकेनाथ, कुमारजनितेन ते । स्वप्नाः स्पष्टार्थतां प्रापुरत्रयेऽपि पुरुषत्रये ॥ २८५ ॥ अथ प्रभौ गते पापवारणे कृतपारणे । चकार पारणस्थाने, रत्नपीठं नृपाङ्गजः ॥ २८६ ॥ एतदादिकृतः पीठमिति लोकाय सोऽवदत् । जनोऽपि जिनभिक्षायाः, स्थाने तत् तादृशं व्यधात् ॥२८७॥ तद्रादि त्यक्ततत्त्वेन, तदाऽऽदित्यस्य मण्डलम् । जनेनाजानताऽद्यापि नित्यं कृत्वाऽपि पूज्यते ॥२८८॥ नाथोऽन्यदा विहारेण, दक्षस्तक्षशिलां पुरीम् । सायं बाहुबलेः प्राप, बहलीदेशमण्डनम् ॥ २८९ ॥ ज्ञात्वा तमागतं बाहुबलिश्चक्रे पुरोत्सवम् । पादारविन्दं वन्दिष्ये, सुप्रातेऽहं प्रभोरिति ॥ २९०॥ अथाङ्गेनातिरम्येण, भूषणान्यपि भूषयन् । समं समन्तात् सामन्तैः, प्रातरान्दमेदुरः ॥२९१॥ यावत् पुरन्दरप्रायः, पश्यन् शृङ्गारितां पुरीम् । भगवान् विषयत्रासी, यत्रासीत् तत्र यातवान् ॥२९२॥ युग्मम् ॥ विजहारान्यतस्तावत्, प्रभञ्जन इव प्रभुः ।
तद्दुःखितं नृपं प्राह, सचिवः शुचिवागथ ॥ २९३ ॥ १. न जा पातासं० विना ॥ २. पुरम् पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ७१
5
10
15
20
25