________________
७०]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पुरं त्रिभुवनस्वामी, व्योमदेशमिवांशुमान् । विहर्तुं प्रविवेशाथ, धिष्ण्याद्धिष्ण्यान्तरं चरन् ॥२६८।। अगृह्णति जिने भिक्षां, हस्त्यश्व-वसनादिकाम् । लोला: कोलाहलं चक्रुः, प्रजाः सायंव्रजा इव ॥२६९।। प्रेषितस्तुमुलं ज्ञातुं , प्रत्यागत्य व्यजिज्ञपत् । प्रतिहारः कुमाराय, वेगादागमनं प्रभोः ॥२७०॥ नापदस्तापदायिन्यः, प्रभवन्ति प्रभोः पुरः । श्रेयांस इति निर्मुक्तच्छत्रोपानदुपागमत् ॥२७१।। नमस्कृतप्रभुः सोऽथ, किङ्कर्तव्यविमूढधीः ।
श्रेयांसः शिश्रिये जातिस्मृत्याऽब्धिरिव वेलया ॥२७२।। $$ पूर्व पूर्वविदेहेषु , वज्रसेनजिनाङ्गजः ।
वज्रनाभोऽभवच्चक्री, सोऽहमेतस्य सारथिः ॥२७३।। महाव्रतं मया साकमीग्मुद्राभृतस्तदा । पार्श्वे पितुरवापायमनपायसुखेच्छया ॥२७४।। वज्रसेनजिनेन्द्रेण, तदाऽऽदिष्टमिति स्वयम् । भविता वजनाभोऽयं, भरते प्रथमो जिनः ॥२७५।। तदयं स दयाराशिः, पयोराशिगभीरिमा । दिष्ट्या दृष्ट्या मया दृष्टश्चकोरेणेव चन्द्रमाः ॥२७६।। निश्चित्येदं तदा जानन् , भिक्षाकल्पमनल्पधीः । ददाविक्षुरसं भर्तुः, श्रेयांसस्तत्क्षणागतम् ॥२७७।। प्रभुणा पाणिपात्रेण, साक्षादिक्षुरसो धृतः । आरूढः शिखया व्योम, जेतुमिन्दुकरानिव ॥२७८।। तदा ददत् कुमारोऽयं, मुदा रोमाञ्चमेचकः । बभौ मुक्तिश्रिया साक्षात् , कटाक्षैरिव वीक्षितः ॥२७९॥ पुण्यैरिव कुमारस्य, दिवमिक्षुरसैर्गतैः ।
उत्सवाय समाहूताः, पुरुहूतादयः सुराः ॥२८०॥ १. ननृपाङ्गजः खंता० ।। २. रसं दद खंता० ।।
20
25
D:\maha-k.pm5\2nd proof