________________
10
तृतीयः सर्गः]
[६७ व्रताय विपिने गन्तुमथ प्रथमपार्थिवः । याप्ययानं समारोहन्मोहराजपराजयी ॥२२९।। शिबिकासविकासान्त-श्रद्धाबन्धोद्धरैनरैः । ऊढा प्रौढैश्च गीर्वाणैर्दासवद् वासवादिभिः ॥२३०।। दिव्यैरातोद्यनिर्घोषैर्नृणां जयजयस्वनैः । सिंहनादैदिविषदां, मागधध्वनिवर्द्धितैः ।।२३१॥ शब्दाद्वैतमयीं कुर्वन्नुर्वीमुर्वी वहन् मुदम् । विभुर्जम्भारि-रम्भादिनृत्ते दत्तेक्षणः क्षणम् ॥२३२।। पूदृशो भृङ्गयन्नङ्गे, जितचम्पकसम्पदि । भरताद्यैः समं स्वामी, सिद्धार्थवनमागमत् ॥२३३।। विशेषकम् ॥ शिबिकायास्तदोत्तीर्य, किङ्किल्लिद्रुतले द्रुतम् । स्वयं जगदलङ्कारोऽलङ्कारानत्यजद् विभुः ॥२३४।। शक्रः स्कन्धेऽथ देवस्य, देवदूष्यं न्यवेशयत् । निर्मलं केवलज्ञानाग्रयानमिव मूर्तिमत् ॥२३५।। तीर्थङ्करः कराम्भोजे, भृङ्गतां बिभ्रतः क्षणम् । मूर्ध्नश्चतसृभिः केशानुच्चखानाथ मुष्टिभिः ॥२३६।। केशाः सुवर्णवर्णेऽङ्गे, सन्तु नीलमणिश्रियः । इत्युक्तः पञ्चमी मुष्टिममुचन्नमुचिद्विषा ॥२३७।। लज्जया मज्जयन्नीलरत्नानि क्षीरनीरधौ । शक्रेणाथ तदक्षेपि, केशमुष्टिचतुष्टयम् ॥२३८॥ आगत्याथ धुनाथेन, तुमुले मुकुलीकृते । कृताष्टमतपाः स्वामी, कृत्वा सिद्धनमस्कृतिम् ॥२३९।। सर्वसावद्ययोगानां प्रत्याख्यानमुदीरयन् । भवाब्धिपोतश्चारित्रं, तदाऽरित्रमिवासदत् ।।२४०।। नारकाणामपि प्रीतिस्फीतं विरचयन् मनः ।
तन्मनःपर्ययज्ञानमुत्पेदे त्रिजगत्पतेः ॥२४१।। १. कङ्कि खंता० पाता० ॥ २. चीर्णाष्ट खंता० पाता० ॥
D:\maha-k.pm5\2nd proof