________________
5
10
151
20
25
६६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् आदिदेश विभुर्वत्स !, भव राज्यधुरन्धरः । भावयन्तो वयं तोषं, ग्रहीष्यामो हि संयमम् ॥२१६॥ विचक्षणः क्षणं वीक्ष्य, विभोर्मुखमवोचत । सादरं भरतः स्वामिसेवारम्भरतस्ततः ॥२१७॥ त्वदग्रे गच्छतः क्षोणिपरागैरङ्गसङ्गिभिः । प्रथते मे यथाऽऽनन्दश्चन्दनैरपि नो तथा ॥२१८॥ प्रीता नित्यं भवत्पादसेवासुखसुधारसैः । स्वामिन् ! साम्राज्यभोगाय, रमते न मतिर्मम ॥ २१९ ॥ “जगदे जगदेकाधिनाथेनाथेदमङ्गजः ।
वत्स ! सेवा पितुः सेयमाज्ञाऽवज्ञायते न यत् ॥२२०॥ अङ्गजा अपि ये कुर्युर्गुर्वाज्ञां तेऽत्र नन्दनाः । अन्ये तु स्नेहभाजोऽपि त्याज्या एव मला इव ॥२२१॥ एकदेहविनिर्माणादधमर्णीकृतैः सुतैः ।
यशो - धर्ममयं देहद्वयं पित्रोर्वितीर्यते" ॥२२२॥ श्रुत्वा सुरा-ऽसुरैर्मान्यामाज्ञामिति जगत्पतेः । न्यग्मुखो भरतस्तस्थावदतपुनरुत्तरः ॥२२३॥ हृष्टाः स्वामिसमादिष्टाः, सचिवास्तदनन्तरम् । भरतं परतन्त्रेच्छमभ्यषिञ्चन् पितुः पदे ||२२४|| तद्बाहुबलिमुख्यानामपि बाहुबलस्पृशाम् । विभुर्विभज्य भूभागान्, नन्दनानां तदा ददौ ॥२२५॥ ततश्च वार्षिकं दानं, निदानं पुण्यसम्पदाम् । प्रभुः प्रवर्तयामास, वित्तैर्वित्तेशपूरितैः ॥२२६॥ अष्टलक्षाधिकां तत्र, कोटिमेकां च काञ्चनीम् । प्रातः प्रारभ्य मध्याह्नं, यावद् देवोऽन्वहं ददौ ॥ २२७॥ भागेऽह्नः पश्चिमे चैत्रश्यामाष्टम्यामथ प्रभुः । चन्द्रमस्युत्तराषाढाभाजि भेजे व्रतोद्यमम् ॥२२८॥
D:\maha-k.pm5\2nd proof