________________
६८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चतुःसहस्रसङ्ख्यैश्च, समं भर्ला समन्ततः । भूपैः कच्छ-महाकच्छमुख्यैर्दीक्षां तदाऽऽददे ॥२४२।। स्तुत्वा नत्वा च यातेषु , सुतेषु त्रिदशेषु च । विहर्तुमिह मौनेन, स भूचक्रे प्रचक्रमे ॥२४३।। प्रभुणा भ्रमता भिक्षा, प्रापि न क्वापि पारणे । भिक्षानभिज्ञः स्वर्णादि, तदा लोको ह्यढौकयत् ॥२४४।। यां निर्वास्य चिरस्यापि, वसन्तीं जनवेश्मसु । यः श्रियं वासयामास, सा भिक्षा किमुपैतु तम् ? ॥२४५।। तथाऽप्यनार्तः क्षुत्तृष्णाद्यातः कच्छादिभिः प्रभुः । आलोच्यामोचि तस्थे च, गङ्गाप्रस्थे फलाशिभिः ॥२४६।। अथ कच्छ-महाकच्छसुतौ पूर्वं नियोजितौ । तदा नमि-विनम्याख्यौ, पित्रोः पादान्तमीयतुः ॥२४७॥ अथैतौ प्रेषितौ ताभ्यां, सेवितुं भरतं प्रभुम् । ऊचतुश्चतुरं साभिमानमानसविक्रमौ ॥२४८॥ विभुं विहाय नाभेयं, नावां सेवावहे परम् । को हि रोहणमासाद्य, प्रपद्येतापरं गिरिम् ? ॥२४९।। इति प्रतिज्ञामाधाय, प्रणिपत्य पितृक्रमान् । प्रभु गत्वा च नत्वा च, तौ व्यजिज्ञपतामिति ॥२५०।। क्षेत्रमात्र्यपि किं तात !, भागेऽस्माकं न भूरभूत् ? । विज्ञप्तोऽपीति नैताभ्यां, वाचं वाचंयमो ददौ ॥२५१॥ व्यधत्तामतिभक्त्या तावप्यवक्तरि भर्तरि । सेवामेवान्वहं के वा, हेवाकं मोक्तुमीशते ? ॥२५२॥ बभौ विभुः स्थितो मध्ये, स तत्पाणिकृपाणयोः । परास्तयोरिव शिवपुरद्वारकपाटयोः ॥२५३।। अपरेयुः परश्रद्धाधरणो धरणोरगः ।
अपश्यन्नमि-विनमी, सेवकौ विनमन् जिनम् ॥२५४।। १. 'च्याथोऽवतस्थे पाता० ॥ २. रतप्रभुम् खंता० पाता० ॥
20
D:\maha-k.pm5\2nd proof