________________
[७९
तृतीयः पल्लव:]
परं दरिद्ररूपं स, मृन्मयं सपरश्वधम् । निर्माय निजगेहान्तः, पूजयामास सादरम् ॥४८।। कदा तत्रैव मुक्त्वा तं, दरिद्रं स च धीधनः । जगाम योजनशतं, दरिद्रदरकातरः ॥४९।। तत्र चन्द्रापुरीमध्यं, प्रविशन् शून्यसद्मनि । स तं दरिद्रमद्राक्षीत् , सम्भ्रमोत्कर्षभासुरः ॥५०॥ अहो सकलदेवस्य, प्रसादो मयि कीदृशः ? । यद्योजनशतं मुक्तो, मत्पृष्ठिं न मुमोच यः ॥५१॥ प्राञ्जलिर्गद्गदगिरा, तुष्टाव गुणरञ्जितः ।
हरिशङ्करप्रमुखास्त्वत्पुर: के सुरोत्तमाः ? ॥५२॥ यतः- हे दारिद्य ! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः ।
अहं सर्वत्र पश्यामि, माञ्च कोऽपि न पश्यति ॥५३॥ इति स्तौति प्रतिदिनं, पूजमानोऽथ भक्तिमान् । सेवते दैवतमिव, तं दरिद्रं स दुर्गतः ॥५४॥ इतश्च चन्द्राधिपतेः, पट्टहस्ती विशृङ्खलः । पातयन् पुरसौधानि, मर्दयन् मनुजांस्तथा ॥५५।। नामयन् वासराधीशं, मोहयन् मनुजेश्वरम् । आलानस्तम्भमुन्मूल्य, विचचार मदोद्धरः ॥५६॥ तं वीक्ष्य विवशं राजाऽघोषयत् डिण्डिमं पुरे । वशीकरोति करिणं, तस्याहं वाञ्छितं ददे ॥५७।। श्रुत्वा दरिद्रभक्तेन, तेन गीतकलाविदा । मन्द्रमध्यतारभेदैः, क्षणान्नागो वशीकृतः ॥५८॥ अयाचि भूपादिष्टेन, प्रसादस्तेन मानिना । दीपा न कार्याः केनापि, मद्वजं दीपवासरे ॥५९॥ तथेति राज्ञाऽनुज्ञातो, रोरो दीपमहे निशि । निजोटजाभितो दीप्रान् , भूरिदीपानचीकरत् ॥६०॥