________________
5
10
15
20
25
20]
ཏུ
तस्यां निशायां कमला, बभ्राम सकलां पुरीम् । क्वापि दीपमपश्यन्ती, समेता तस्य सद्मनि ॥ ६१ ॥
उद्यम्य लकुटं सोऽथ, कमलामनुधावितः । दरिद्रे स्वामिनि सति, त्वं कुतोऽऽत्रैषि चञ्चले ! ॥६२॥
इति भक्त्या तया हृष्टो, दरिद्रोऽपि हसन् जगौ । त्वयि तुष्टो महारोर ! वरं ब्रूहि विशारद ॥ ६३॥ शब्दच्छलज्ञः स प्राह, यदि तुष्टोऽसि तत् कदा । मदीयेन त्वया भाव्यं, किं समीहेऽपरं त्वयि ॥६४॥
[ धर्मकल्पद्रुमः
छलितेऽस्मिन्न वागूचे निर्गते निजमन्दिरात् । सोऽपि पद्मां समाहूय, पूजयित्वा नतिं व्यधात् ॥६५॥ मातर्दरिद्रे मध्यस्थे, न योग्यः स्यात् तवागमः । कल्पवल्ली करीरेण, किं योजयितुमर्हति ? ॥६६॥ प्रातः प्रजेश (शः) प्रत्यक्षं, प्रीत्या पद्माप्रमोदतः । भूमीखण्डस्य कस्यापि, राज्यमस्मै वितीर्णवान् ॥६७॥ इति एकाग्रचित्तविषये राजपालकथा समाप्ता ॥ §§ अथास्यैकाग्रचित्तस्य, दृढासनस्थितस्य च । रूपाणि सर्प्पसिंहानां, दर्शितानि सुरैर्निशि ॥६८॥ तथापि राजपुत्रस्य, क्षुभितं न मनो मानक् । एवं तस्य दिनाः सप्त, सञ्जाताः सत्त्वशालिनः ॥६९॥ सप्तोपवासैः प्रत्यक्षीभूय यक्षो जगाद सः । याचसे किं महाधीर !, स ऊचे शृणु यक्षराट् ! ॥७०॥ धर्म्मदत्तस्य या पत्नी, तामानीय ममापय । यक्षेणोक्तमसाध्यं मे, यतः सा मत्प्रियावशा ॥ ७१ ॥ न शक्यते मया दातुं श्रुत्वैवं नृपजोऽब्रवीत् । सुन्दरी सा त्वया यक्ष ! क्व प्राप्ता कथय प्रभो ! ॥७२॥
"