________________
तृतीयः पल्लवः ]
यक्षो जगाद हे भद्र !, कदाऽहं प्रियया युतः । रात्रौ क्वापि वने प्राप्तो, दृष्टा सा दिव्यधारिणी ||७३ || यक्षिण्या मे तदा प्रोक्तं, स्वामिन् ! दिव्यैकरूपिणी । मानवी दृश्यतेसुप्ताऽपहृत्यैनां ममार्ष्णेय ||७४|| भर्तृपार्श्वात् ततो हृत्वा, प्रियायै सा मयाऽप्पिता । तां दातुं नैव शक्तोऽहमित्युक्त्वाऽसौ तिरोदधौ ॥७५॥ कुमारेण तदाऽचिन्ति, धिग् देवान् येऽबलावशाः । किङ्करा इव दृश्यन्ते, मानवास्तर्हि किं पुनः ? ॥७६॥ गाथा - हरिहरचउराणणचन्दसूरखन्धाइणोऽवि जे देवा ।
नारीण किङ्करत्तं, करन्ति धिद्धी विसयतिण्हा ॥७७॥ [ ] यक्षिणीं तामथोद्दिश्य, कुर्व्वेऽत्राहं पुनस्तपः । यथा मे कार्यसिद्धिः स्यात् तपो हि विषमार्थकृत् ॥७८॥ यतः - इष्टे नष्टे सुखे भ्रष्टे, कष्टे निकटवर्तिनि ।
अमूढमनसां युक्तं, वैराग्याभरणं तपः ॥७९॥ नानाविधलसल्लब्धिलतामण्डलमण्डपः । कल्याणकुमुदारामचन्द्रचन्द्रातपस्तपः ॥८०॥ तपः सकललक्ष्मीणां, नियन्त्रणमशृङ्खलम् । दुरितप्रेतभूतानां, रक्षामन्त्री निरक्षरः ॥८१॥ अथोपवासत्रितयं, तथैव विधिना कृतम् । ततस्तस्य तपः सत्त्वात्, यक्षिणी कम्पितासना ॥८२॥ प्रत्यक्षीभूय तं प्रोचे, किमेतद् वत्स ! साहसम् ? । तपसा तव तुष्टाऽहं, मनोऽभीष्टं वरं वृणु ॥८३॥ तेनोक्तं देवि ! देहि त्वं धर्मदत्तप्रियां मम । ततो दत्ता तया सा स्त्री, सर्वं सिध्यति सत्त्वतः ॥८४॥ धर्मदत्तं समाहूय, कुमारेणार्पिता प्रिया ।
प्रोक्तं चैषा भवद्भार्या, पूर्वप्रोक्ता भवेन्न वा ? ॥८५॥
[ ८१
5
10
15
20
25