________________
[धर्मकल्पद्रुमः दृष्ट्वा दिव्यदुकूलैश्चाभरणैर्भूषितां प्रियाम् । भवत्येवेति स प्रोक्त्वा(च्य), नितान्तं मुमुदे हृदि ॥८६॥ पुनर्भूपसुतोऽवादीत् , हे सखे ! धर्मदत्तक । अग्रे चल यथा स्वर्णनरं निष्कास्य ते ददे ॥८७।। गत्वा तत्र स्मशानेऽथ, खनित्वा तेन भूतलम् । निष्काषितः स देदीप्यमानः काञ्चनपूरुषः ॥८८॥ कथितं च मयैवायं, गृहीत्वा वह्निकुण्डतः । निक्षिप्तो भूमिमध्ये प्राग् , गृहाण तव पूरुषम् ॥८९॥ तं दृष्ट्वा धर्मदत्तोऽपि, चेतस्येवमचिन्तयत् ।
अहो अस्योपकारित्वमुदारत्वं च कीदृशम् ? ॥९०।। गाथा- उवयाइ उवयारडउ, सहूइ कोइ करेइ ।
विण उवयारइ जो करइ, विरला जणणि जणेइ ॥११॥ नयप्रणयिनी लक्ष्मीः, सत्त्वप्रणयिनी धृतिः ।
कुलीनानां भवत्येव, धर्मप्रणयिनी मतिः ॥१२॥ यतः- उद्योतयति कोऽपि जातः, कुलमन्यो निर्मलं कलङ्कयति ।
धवलयति कुमुदबन्धुर्गगनं मलिनयति जीमूतः ॥१३॥ अथोचे धर्मदत्तस्तं, कुमारं प्रति सादरम् । तवोपकारिणः पार्वे, याञ्चां कि(का)ञ्चित् करोम्यहम् ॥९४।। मम वाक्यं त्वया व्यर्थं, न कर्तव्यं विचक्षण ! । याचस्वेति कुमारेण, प्रोक्ते धर्मोऽवदत् पुनः ॥९५॥ चामीकरनरं मित्र !, गृहाण वचसा मम । कुमारेणोक्तं को हेतुर्यन्मे ददासि पूरुषम् ॥९६॥ तेनोक्तं नायमस्माकं, मन्दिरे घटते कदा । तेन ते दीयते प्रत्युपकारोऽपि भवेत् पुनः ॥९७।। आग्रहाद् धर्मदत्तस्य, प्रोवाच नृपनन्दनः । यावद् रोचेत तन्मानं, स्वर्णं गृहाण पूरुषात् ॥९८।।
15