________________
तृतीयः पल्लवः ]
द्वौ पादौ च करौ तस्य, च्छित्वा सोऽथ गृहीतवान् । शीर्षादि शेषमुत्पाट्य, राजपुत्रो गृहं ययौ ॥९९॥ पृष्टं भूपेन हे वत्स ! तस्य लब्धः स पूरुष: ? । लब्ध एवं कुमारेण, भाषिते हर्षितो नृपः ||१००|| तेनाथ धर्मदत्तेन, षोडश द्रव्यकोटयः । तस्माच्चामीकरात् प्राप्ताः, पुरुषाङ्गप्रभावतः ॥१०१॥ कस्मात् स्थानान्महान्तं स, सार्थं कृत्वा समागतः । गृहे वर्धापकोऽप्रैषि, भार्या तस्य च हर्षिता ॥१०२॥ सर्वोऽपि स्वजनस्तस्य तदा सन्मुखः आगतः । महोत्सवेन धर्मोऽसौ, प्रविवेश निजं गृहम् ॥१०३॥
भार्याद्वययुतो धर्मदत्तो भोगान् बुभोज सः । पूर्वाश्रिताश्च ये लोकास्तमाढ्यं ते सिषेविरे ॥ १०४॥
[ ८३
काव्यम्- त्यजन्ति मित्राणि धनैर्विहीनं, पुत्राश्च दाराश्च सहोदराश्च । तमर्थवन्तं पुनराश्रयन्ति, अर्थो हि लोके पुरुषस्य बन्धुः ॥१०५॥ कियत्यपि गते काले, यशोधवलभूपतिः । वैराग्यरसपीयूषपानं कर्तुं समुद्यतः ॥१०६॥ श्रीचन्द्रयशसं पुत्रं, विनयस्य राज्यसम्पदि । सुमित्रसूरिपार्श्वे स, व्रतं जग्राह शुद्धधीः ॥ १०७॥ पठित्वा शुद्धसिद्धान्तं, चिरं चारित्रमुज्ज्वलम् । प्रपाल्य खड्गधाराभं, स राजर्षिः शिवं ययौ ॥१०८॥ तस्य श्रीचन्द्रयशसो, राज्यप्राप्तस्य भूतले । नवीनं चन्द्रधवल, इति नाम प्रकीर्त्तितम् ॥१०९॥ सुवर्णपुरुषस्याथ, पूज्यमानस्य युक्तिभिः । हस्ताः पादा अपि च्छिन्ना, आविर्बभूवुरन्वहम् ॥ ११०॥ अक्षयस्तेन हेम्नाऽस्य, जातः कोशः स्वपुण्यतः । स पृथ्वीमनृणां कृत्वा, प्रावर्तयत् स्ववत्सरम् ॥१११॥
5
10
111
15
20
25