________________
[धर्मकल्पद्रुमः अन्यदा धर्मदत्तः स, स्मृतिं राज्ञः समागतः । मन्त्रिणं प्रेष्य चाकार्य, बहुमानमदान्नृपः ॥११२।। राजोचे तव दत्तेन, सुवर्णपुरुषेण भोः ! । अनृणीकारकीतिर्मे, जाताऽतस्त्वं महासखा(खः) ॥११३॥ मुख्यश्रेष्ठिपदं दत्तं, मध्येऽस्य व्यवहारिणाम् । धर्मः सुखासनासीनो, यात्यायाति निजे गृहे ॥११४।। नरेन्द्रधर्मदत्तौ तौ, धर्मकार्याण्यनेकशः । चक्रतुः स्नेहवार्ताञ्च, नित्यं विदधतुमिथः ॥११५।। एकदा तेन भूपेन, प्रीत्या पृष्टः स श्रेष्ठिराट् । कियन्मात्रं धनं तेऽस्ति ?, तेनोचे शृणु कौतुकम् ॥११६।। तस्मिन्वसरे स्वामिन् ! सुवर्णपुरुषाङ्गतः । सङ्ख्यया मे सुवर्णस्य, जाताः षोडश कोटयः ॥११७।। जलस्थलादिमार्गेषु , व्यवसायं प्रकुर्वतः । लेख्यके मम ता एव, सन्ति षोडश कोटयः ॥११८॥ न विशेषः कदा कश्चिद् व्यवसायस्य दृश्यते । तेन कर्तुं न शक्नोमि, व्ययञ्च सविशेषकम् ॥११९।। अतः कारणतो देव !, कोऽपि ज्ञान्येव पृच्छ्यते । येन मे ज्ञायते कर्मविपाकः कथमीदृशः ? ॥१२०।। राज्ञोचे मित्र ! ते लक्ष्म्या, इयान् लोभः कथं हृदि ? । भाग्येनैव भवेत् पद्मा, 'भाग्यं सर्वत्र वन्द्यते' ॥१२१॥ यथान्यदा भाग्य-लक्ष्म्योर्द्वयोर्मिलितयोमिथः । सञ्जातः क्वापि संवादः, आत्मात्मैकप्रशंसने ॥१२२।। अप्येको नो विरमते(ति), सुरैरिन्द्रादिकैस्तदा । एतयोः कथितं स्वस्वान् , गुणान् दर्शयतं युवाम् ॥१२३।। अथैकं दुर्गतं दीनं, कृशं संवीक्ष्य मानवम् । सुवर्णस्येष्टिकां तस्य, दत्वा च कमलाऽवदत् ॥१२४।।
15
25