________________
[८५
तृतीयः पल्लवः]
रे त्वं याहि गृहे स्वर्णं, विक्रीयाभरणादिभिः । भूषितः पुनरागच्छामीषां दर्शय मद्गुणान् ॥१२५।। ओमित्युक्त्वा गतो गेहे, गोपिता चेष्टिका क्वचित् । तां प्रातिवेश्मिकी दृष्ट्वा, गृहीत्वा च गता गृहे ॥१२६।। तथावस्थं ततो नि:स्वं, दृष्ट्वा द्वितीयवासरे । रत्नमेकं पुनर्लक्ष्या, तस्मै सत्कृपयाऽप्पितम् ॥१२७।। शिक्षां चापि तथा दत्वा, वालितोऽसौ गृहं प्रति ।। रत्नं मुक्त्वा नदीतीरे, स्नानार्थं स जलेऽविशत् ॥१२८।। मत्स्येनागत्य तद्रत्नं, गिलितं च ययौ जले । ततीयेऽपि दिने ताहक, स नरो ददृशे श्रिया ॥१२९॥ भाग्येनाथ रमा प्रोक्ता, त्वयाऽसौ न धनीकृतः ।
वीक्ष्याहं शुभदृष्टिभ्यां, करोम्यद्यास्य सुन्दरम् ॥१३०॥ यतः- भाग्यं फलति सर्वत्र, न विद्या न च पौरुषम् ।
श्रीकण्ठकण्ठलग्नस्य, वासुकेर्वायुवल्गनम् ॥१३१॥ भाग्येनाथ स्वहस्तेन, तद्भाले तिलकं कृतम् । उक्तं याहि गृहे जल्पन् , भाग्यं स्फुरति मेऽद्य वै ॥१३२॥ तस्मिन्गेहे गतेऽथागात् , प्राघूर्णकोऽस्य शालकः । तदर्थे हीनजातित्वान्मत्स्य आनीय दारितः ॥१३३॥ तन्मध्यान्निःसृतं रत्नं, दृष्ट्वा सोऽवक् प्रियां प्रति । लब्धं पूर्वगतं रत्नमिष्टिकाऽथ विलोक्यते ॥१३४॥ एवं प्रोचे पुनर्यात् तावद्भित्त्यन्तरे स्थिता । तत्प्रातिवेश्मकी श्रुत्वा, ददौ तां शङ्कयेष्टिकाम् ॥१३५।। लगित्वा पादयोश्चैवं, वदति स्म पुनः पुनः । क्षन्तव्यो मेऽपराधोऽयं, वाच्यं कस्याग्रतोऽपि न ॥१३६।। ओमित्युक्ता जहर्षासौ, रत्नस्वर्णेष्टकाधनात् । आढ्यो बभूव भाग्येन, दरिद्रं सकलं गतम् ॥१३७।।