________________
[धर्मकल्पद्रुमः अन्येद्युः सेवकैर्युक्तो, वस्त्राभरणभूषितः । अश्वारूढो जगामासौ, कमला भाग्यसन्निधौ ॥१३८।। भाग्यपादे पतित्वा च, तद्गुणान् वर्णयन्नथ । देवानां पुरतो लक्ष्मी, निर्भर्त्सयन्नुवाच सः ॥१३९॥ भाग्यप्रभावतो राज्यं, भाग्याच्च प्रचुरं धनम् । अतो भाग्यं वरं ज्ञेयं, तद्विना श्रीः करोति किम् ? ॥१४०॥
इति भाग्योपरि कथा समाप्ता ॥ अतो ब्रवीमि हे मित्र !, धर्मदत्त ! रमाक्षयः । भाग्ये सति भवेन्नैव, ततः कार्यो धनव्ययः ॥१४१।। इत्थं मिथो रागवन्तौ, चक्रतुः सुकृतानि तौ । अन्येधुर्वनपालेन, विज्ञप्तोऽसौ धराधिपः ॥१४२।। स्वामिन् ! श्रीधर्मधवलनामानः सूरयो वने । समाजग्मुः परिवृताः, साधुभिः पञ्चभिः शतैः ॥१४३।। श्रुत्वैवं हर्षितो भूपश्चतुरङ्गचमूवृतः । महोत्सवेन सद्भक्त्या , गुरून् नन्तुं ययौ वने ॥१४४॥ धर्मदत्तोऽपि सोत्साहः, पत्नीद्वितयसंयुतः । मनःसंशयभङ्गार्थं, जगाम गुरुवन्दने ॥१४५।। निजभालेऽञ्जलिं कृत्वा, वन्दित्वा तं गुरुं वरम् । उपविष्टौ यथास्थानं, नरेन्द्रधर्मदत्तकौ ॥१४६।। तेषां भविकजीवानां, पुरतस्तेन सूरिणा । भवदाहसुधातुल्या, प्रारब्धा धर्मदेशना ॥१४७।। भो भव्या ! भूरिभाग्येन, भविनां नृभवो भवेत् । तदमुं प्राप्य संसारं, त्यक्त्वाऽऽश्रयत निर्वृतिम् ॥१४८॥ संसारः परमं दुःखं, मोक्षञ्च(श्च) परमं सुखम् । इति तत्त्वं परिज्ञाय, भाव्यं मोक्षाय तत्परैः ॥१४९॥
25