________________
तृतीयः पल्लव:]
[८७ भवा जन्तोरनन्ताः स्युनूभवः शस्यते परम् ।
यदय॑न्तेऽमुना स्वर्गापवर्गाद्याः सुखश्रियः ॥१५०॥ यतः- विषयविरतिः सङ्गत्यागः कषायविनिग्रहः,
शमदमदयास्तत्वाभ्यासस्तपश्चरणोद्यमः । नियमितमनोवृत्तिर्भक्तिर्जिनेषु सुशीलता, भवति कृतिनः संसाराब्धेस्तटे निकटे सति ॥१५१॥ यथा मृगा मृत्युभयेन भीता, उद्धृत्त्य कर्णी न करन्ति निद्राम् । एवं बुधा ज्ञानसमन्विता हि, संसारभीता न करन्ति पापम् ॥१५२॥ प्राणान्न हिंस्यान्न पिबेच्च मद्यं, वदेच्च सत्यं न हरेत्परार्थम् । परस्य भार्या मनसाऽपि नेच्छेत् , स्वर्गं यदीच्छेत् गृहवत् प्रवेष्टुम् ॥१५३॥ 10 पुरन्दरसहस्राणि, चक्रवर्तिशतानि च । निर्वापितानि कालेन, प्रदीपा इव वायुना ॥१५४॥ धर्मादाप्नोति शर्माणि, परमादिव बान्धवात् । तरण्डेनेव तरति, धर्मेण विपदापगाः ॥१५५॥ सम्यगाराधितो धर्मो, जन्तूनां सुखदायकः । इहलोके फलं दत्ते, परलोके हि का कथा ? ॥१५६॥ यथा हि दुर्गतः पूर्वं, सुन्दरश्रेष्ठिनन्दनः ।
कृत्वा दुःखक्षयं धादिहलोकेऽपि सुख्यभूत् ॥१५७॥ गाथा- अलमित्थ वित्थरेणं, कुरु धम्मं जेण वञ्छ्यिसुहाइं ।
पावेसिइ इहलोए, जहाई सुयसुन्दरस्सेव ॥१५८॥ [ ] अयनानि विना भानि, यथा शोभां दधन्ति न । तमो विना कथं दीपे, दीपकत्वं प्रवर्त्तते ? ॥१५९॥ बुभुक्षां च विना भव्यं, भोजनं रोचते कथम् ? । विना चातपसंतापं, न हि च्छायागुणो भवेत् ॥१६०॥ पुरा कृतस्य पापस्य, विपाकेन विना तथा । कथं वरेण्यपुण्यस्य, प्रभावो ज्ञायते भुवि ? ॥१६१॥ यदा सङ्कटमायाति, प्रयाति विलयं यदा । तदा तदा क्षणे जन्तोः, पापपुण्यफलं भवेत् ॥१६२॥