________________
5
10
151
20
25
u]
[ धर्मकल्पद्रुमः
जानन्ति मानवा दक्षाः, पुण्यपापफलं स्वयम् । मुग्धजन्तुविबोधार्थं, कथ्यते हेतुभिः पुनः” ॥१६३॥ राजोचे भगवन्कोऽसौ, सुन्दर श्रेष्ठिसंभवः । किं कृतं प्रबलं पुण्यं ?, गतं पापं कथं पुनः ? ॥१६४॥
अहं तु श्रोतुमिच्छामि, तत्कथां त्वत्प्रसादतः । यस्यात्रैव कृतो धर्म, इहैव फलितो द्रुतम् ॥१६५॥
मुनिराह महाभाग !, शृणु त्वं शुद्धचेतसा । सम्यक् ते कथयामीत्थं, कथां कौतुककारिणीम् ॥१६६॥
अथ - जम्बूद्वीपेऽस्ति सत्क्षेत्रं, पवित्रं भरताभिधम् । तद्भाले तिलकाकारं, पुरं तिलकनामकम् ॥१६७॥ तत्पुरं पालयामास, राजा श्रीतिलकप्रभुः । प्रजानां पोषको नित्यं, शोषकः पापकारिणाम् ॥१६८॥ तिलकश्रीः प्रिया तस्य, सती सौभाग्यशालिनी । सौजन्यगुणसंयुक्ता, रूपेण जितदेवता ॥१६९॥ तत्पुरे सुन्दरश्रेष्ठी, गुणैर्ज्येष्ठो विशिष्टधीः । निजवंशावतंसोऽभूद् दयादाक्षिण्यसुन्दरः || १७०॥ सुभगश्रीः प्रिया तस्य, भाग्यसौभाग्यभूरभूत् । सुशीला स्वजनानन्ददायिनी कमलोपमा ॥१७१॥ सदाल्हादा च सोत्साहा, स्वजने मिलिते सति । भक्ता देवे गुरौ चापि सा स्त्री लक्ष्मीरिवापरा ॥ १७२ ॥ परघरगमणालसिणी परपुरिसविलोयणे य जच्चन्धा । परमालावे बहिरा, घरस्स लच्छी न सा महिला ॥१७३॥ [ ] दूहा- कडूआ बोली कामिणी, फगडा सूरी नारि ।
तेहनउ घर सहु परिहरइ, को न चढइ घरबार ॥१७४॥ न नरस्युं बहु बोलणा, घर घर गोडि भमन्ति । सहीया निसि बाहिर वसई, ते सुशील किम हुन्ति ? ॥ १७५ ॥