________________
तृतीयः पल्लवः ]
सम्पूर्णविभवः श्रेष्ठी, कोटिसंख्यधनेश्वरः । कान्तया सह संसारभोगान् नित्यं बुभोज सः ॥ १७६॥ कदा वचनमात्रेणेण, न दूमयति कञ्चन । यस्य धर्मे शुभा बुद्धिर्मन:शुद्धिर्जिनार्च्चने ॥१७७|| एवं प्रवर्त्ततस्तस्य (मानस्य), कालो घनतरो ययौ । परं पुत्रफलं नाभूत् तदा श्रेष्ठी व्यचिन्तयत् ॥१७८॥ वर्त्तते मम कायस्य, वयस्तुर्यं समीपगम् । तथापि दृश्यते नूनं, गृहं शून्यं सुतं विना ॥ १७९॥ गाथा - तं मन्दिरं न सोहइ, जत्थ न दीसन्ति धूलिधवलाई ।
उट्ठन्ति रडन्ति रमन्ति च, दो तिन्नि लहुयाइं डिंभाई ॥१८०॥ [ ] काव्यम् - इक्षोर्विकारा मतयः कवीनां गवां रसो बालकभाषणानि ।
[ ८९
ताम्बूलमन्नं युवतीकटाक्षा, एतान्यहो शुक्र ! न सन्ति नाके ॥१८१॥ को भावी मद्गृहाधीशो, वंशवृद्धिः कथं भवेत् ।
कः कर्त्ता च विना पुत्रं, गुरुगोत्रजयोः स्थितिम् ? ॥१८२॥ इति चिन्तापरो नित्यं, शून्यचित्तः सुतार्त्तिभाक् । दिनान्यपूरयत् श्रेष्ठी, धने सत्यपि दीनवत् ॥ १८३॥ एकदा यामिनीयामे, पश्चिमेस महामतिः ।
धर्मात्मा धर्म्मकृत्येषु विशेषात् प्रगुणोऽभवत् ॥१८४॥ शय्यां विमुच्य यत्नेन, प्रमार्ण्य धरणीतलम् । पद्मासनं दृढीकृत्योपविष्टो विष्टरे वरे ॥१८५॥ पिण्डस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । एवं चतुर्विधे ध्याने, यथाशक्ति समुद्यतः ॥ १८६॥ परमेष्ठिनमस्कारं, सारं सस्मार मानसे । ववन्दे शुभभावेन, श्रेष्ठी शाश्वततीर्थपान् ॥१८७॥ शत्रुञ्जयोज्जयन्ताद्री, सम्मेतशिखरं तथा । अष्टापदञ्च तीर्थानि, नमश्चक्रेऽथ शान्तये ॥१८८॥
"
5
10
15
20
25