________________
१०]
[धर्मकल्पद्रुमः ऋषभेशोऽजितः स्वामी, संभवश्चाभिनन्दनः । सुमतिस्तु पद्मप्रभः, श्रीसुपावो जिनाधिपः ॥१८९॥ चन्द्रप्रभस्तु सुविधिः शीतलस्तीर्थनायकः । श्रेयांसो वासुपूज्योऽपि, विमलोऽनन्ततीर्थराट् ॥१९०॥ धर्मः श्रीशान्तिकुन्थू चारो मल्लिर्मुनिसुव्रतः । नमिर्नेमिः पार्श्वनाथो, महावीरो जिनोत्तमः ॥१९१॥ चतुविशतितीर्थेशानेतांश्च समये तदा । अतीतान् भाविनश्चापि, स ववन्दे शिवङ्करान् ॥१९२॥ धर्मध्याने स्थितस्यैवं, सुन्दरस्य महात्मनः ।
प्रत्यक्षीभूय तत्राऽऽगात् , गोत्रजा पूर्वजन्मनः ॥१९३।। यतः- सदयः सत्यवादी यः, सलज्जः शुद्धमानसः ।
गुरुदेवार्चको वाग्मी, तस्य तुष्यन्ति देवताः ॥१९४॥ यतः- चौराणां वञ्चकानाञ्च, परदारापहारिणाम् ।
नियानाञ्च निःस्वानां, न तुष्यन्ति सुराः कदा ॥१९५॥ असत्यवादिनां हत्याकारकाणां कुकर्मणाम् । अन्यर्मलिनचित्तानां, न तुष्यन्ति सुराः कदा ॥१९६॥ गोत्रजा सा जगादैवं, मां त्वं जानासि सुन्दर ! । प्राग्भवेऽहं भवद् देवी, तव पूर्वभवं शृणु ॥१९७।। श्रीनिवासपुरे पूर्वमिभ्यः सोमाभिधोऽभवत् । सोमश्रीस्तस्य भार्याऽभूद् गोत्रजा भुवनेश्वरी ॥१९८।। सिंहदत्ताभिधः श्रेष्ठः, श्रेष्ठिनोऽस्य सुतोऽभवत् । कृत्वा दानादिकं धर्म, सोमो मृत्युमवाप सः ॥१९९।। उत्पन्नः सोमदेवोऽत्र, पुरे तिलकनामानि । सिंहदत्तस्य जीवस्त्वं, पुत्रो जातोऽस्य सुन्दर ! ॥२००।। प्राग्भवे गोत्रदेवी ते, सैवाहं भुवनेश्वरी । अत्रागताऽस्मि हे वत्स !, शृणु चागमकारणम् ॥२०१॥
25