________________
[९१
तृतीयः पल्लव:]
अद्याहं तीर्थयात्रायै, द्वीपे नन्दीश्वरे गता । तत्र शाश्वततीर्थेशा, वन्दिता भक्तियुक्तिभिः ॥२०२॥ नृत्यगानादिरगञ्च, कृत्वा विविधभावतः । अन्यच्छाश्वतचैत्यानि, वन्दित्वा वलिता पुनः ॥२०३।। आगताऽष्टापदाद्रौ च, यस्मिन् भरतकारितः ।
प्रासादोऽस्ति सुवर्णस्य, चतुर्दारो महोन्नतः ॥२०४।। काव्यम्- उत्सेधाङ्गलदीर्घयोजनमितं कोशत्रयं चोच्छ्रितं,
विस्तारे भरताधिराजविहितं गव्यूतमात्रोद्धरम् । एकाहनिशि नित्यवासशिवदं कैलासभूषामणिं, नाम्ना सिंहनिषद्यमुत्तममहं चैत्यं स्तुवे सादरम् ॥२०५॥ चतुर्विंशतिरहन्तो, रत्नकाञ्चनमूर्तिभिः ।। स्थापिता मानवर्णाभ्यां, युक्तास्तत्र चतुर्दिशम् ॥२०६॥ तान् जिनान् पूजयित्वा च, वन्दित्वा चलिता ततः । क्षपापश्चिमयामेऽहमागतैतत्पुरोपरि ।।२०७|| तदाऽकस्माद्विमानं मे, बभूव नभसि स्थिरम् । उपायानां शतेनापि, न चलत्येव चालितम् ॥२०८।। क्रुधाऽचिन्ति मया केन, विमानं स्तम्भितं मम ? । अवधिज्ञानयोगेन, तदा पश्चान्निरीक्षितम् ॥२०९।। तदाऽधस्तान्मया दृष्टस्त्वं ध्यानेनात्र संस्थितः । सन्तानार्थञ्च चिन्तापि, ज्ञाता ते याऽस्ति चेतसि ॥२१०।। अहं हृष्टा तदा चित्ते, कोपाटोपश्च संवृतः ।
तव ध्यानप्रभावेन, विमानं स्तम्भितं मम ॥२११।। यतः- पुण्यवान् यः पुमान् कोऽपि, कष्टचिन्तार्णवे पतेत् ।
तस्योपरि भवेद् देवं, स्थिरं यानमिति स्थितिः ॥२१२॥ यतः- साधुस्त्रीबालवृद्धानां, पीडितानाञ्च केनचित् ।
उल्लङ्घने च तीर्थानां, विमानं स्थिरतां भजेत् ॥२१३॥
15