________________
10
[धर्मकल्पद्रुमः यतः- दुष्टारिष्टाभिभूता ये, दुःखिनश्च सुमिणः ।
सानिध्यं क्रियते तेषां, स्थितिरेषा हि दैवती ॥२१४॥ अतोऽहं पूर्वमोहेन, तव ध्यानेन सुन्दर ! । मुक्त्वा विमानमाकाशे, आगता भवदन्तिके ॥२१५।। तुष्टाऽहं तव भाग्येन, याचस्व वरमीहितम् । सुन्दरः स्माह हे मातः !, सत्यं सर्वं त्वयोदितम् ॥२१६॥ शृण्वतो मम त्वद्वाचं, जातिस्मृतिरभूदिह । तेन पूर्वो भवो दृष्टो, यादृशः कथितस्त्वया ॥२१७।। अथ त्वं यदि तुष्टाऽसि, किमन्यद् याच्यते ? यतः । सांसारिकं सुखं सर्वमस्ति मे त्वत्प्रसादतः ॥२१८।। परमेकोऽयं मे नास्ति, देहि तद् देवि ! साम्प्रतम् । येन मे सफलं जन्म, जायते जगतीतले ॥२१९।। देव्यूचे भद्र ? किं न्यूनं ?, प्रोवाच सुन्दरः पुनः ।
सूनुर्मे नास्ति तदुःखं, यं विना भाति नो कुलम् ।।२२०।। यतः- दिनं दिनकरं विना वितरणं विना वैभवं,
महत्त्वमुचितं विना सुवचनं विना गौरवम् । सर: सुजलजं विना धनभरं विना मन्दिरम् , कुलं तनुरुहं विना श्रयति नैव सश्रीकताम् ॥२२१॥ देवि ! देहि ततः पुत्रं, प्रशस्तं शुभलक्षणम् । मद्वाचा ते सुतो भावीत्युक्त्वा देवी पुनर्जगौ ॥२२२॥ सुभगः सुगुणो दक्षस्तव पुत्रो भविष्यति । परं तव च पुत्रस्य, सुखं नो भवितोभयोः ॥२२३।। मातापित्रोवियोगोऽस्य, बालत्वेऽपि भविष्यति । प्रथमं चासुखीभूत्वा, पश्चात् स भविता सुखी ॥२२४॥ इत्युक्त्वा सा तिरोभूता, यानस्था स्वाश्रयङ्गता । श्रेष्ठी क्षणं स्थिरं स्थित्वा. निजचित्ते व्यचिन्तयत् ॥२२५।।
15
20
25