________________
तृतीयः पल्लवः ]
काव्यम् - स्वप्नः किन्नु किमिन्द्रजालमथवा किं चेतसो विभ्रमो, दोषः कोऽपि किमेष मे नयनयोर्विश्वैकसंमोहकृत् । पाताले त्रिदिवेऽथवा समभवज्जन्मान्तरं मेऽपरम्,
[ ९३
कोऽस्मि क्वास्मि किमस्मि कर्म विदधत् क्षिप्तोऽस्मि केनात्र च ? ॥२२६॥
इति चिन्तयतस्तस्य, प्रभातं समजायत । चकारावश्यकादीनि, प्रातः कृत्यान्यसौ सुधीः ॥ २२७॥ तद्दिनाद्धर्म्मकार्याणि, विदधेऽसौ महादरात् ।
दीनादिभ्यो ददौ दानं, पात्रेभ्योऽपि विशेषतः ॥ २२८॥
यतः- दातव्यं भोक्तव्यं, सति विभवे सञ्चयो न कर्त्तव्यः । पश्येह मधुकरीणां, सञ्चितमर्थं हरन्त्यन्ये ॥ २२९॥
यतः- रूपं स्वरूपं वसुवासवोपमं रम्याणि हर्म्याणि मनोरमाः स्त्रियः । भवन्ति सौभाग्ययुताश्च देहिनः सुपात्रदत्तेन धनेन सर्व्वदा ॥२३०॥ यतः- सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्म्मसाधनसामग्री, नाल्पपुण्यैरवाप्यते ॥२३१॥ ज्ञानयुक्तः क्रियाधारः सुपात्रमभिधीयते । दत्तं बहुफलं तत्र धेनुस क्षेत्रयोरिव ॥२३२॥ असद्भ्योऽपि च यद्दानं, तन्न श्रेयस्करं विदुः । दुग्धपानं भुजङ्गानां, जायते विषवृद्धये ॥२३३॥ गाथा - जं तवसंयमहीणं, नियमविहूणं च बंभपरिहीणं ।
तं सिलसमं पत्तं, बुडुन्तं बोलए अन्नं ॥ २३४ ॥ [ दा.वि./ १५ ] गाथा - जो सिंचिऊण विसपायवं पि पत्थेइ तत्थ अमयरसं ।
जइ पाविज्ज तओ तं, ता मुक्खपलं अपत्ते वि ॥ २३५॥ [ दा.वि./ १८ ] चैत्यानां यत्समारम्भे, साधूनां भेषजक्रमे ।
किञ्चिदेकगुणं पापं, पुण्यं कोटिगुणं भवेत् ॥२३६॥ दातुर्दापयितुश्चैव, अनुमन्तुश्च भावतः ।
वस्तुनः पात्रदत्तस्य, त्रयाणां सदृशं फलम् ॥२३७॥
5
10
15
20
25