________________
[धर्मकल्पद्रुमः आनन्दाश्रूणि रोमाञ्चो, बहुमानः प्रियं वचः । किं चानुमोदना पात्रदानभूषणपञ्चकम् ॥२३८॥ अनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चामी, सद्दानं दूषयन्त्यहो ॥२३९॥ स्थावरं जङ्गमं चेति, सत्पात्रं द्विविधं स्मृतम् । स्थावरं तत्र पुण्याय, प्रासादप्रतिमादिकम् ॥२४०॥ ज्ञानाधिकं तपःक्षामं, निर्मं निरहङ्कृतम् । स्वाध्यायब्रह्मचर्येण, युक्तं पात्रन्तु जङ्गमम् ॥२४१॥ तयोस्तत्र द्वयोर्मध्ये, जङ्गमं पात्रमुत्तमम् । स्थावरं हि बहोः कालात् सद्यः पुण्याय जङ्गमम् ॥२४२॥ देवधर्मादिकं सर्वं, ज्ञायते जङ्गमाद्यतः ।
प्रोक्तं सर्वोत्तमं तेन, सत्पात्रं जङ्गमं बुधैः ॥२४३॥ काव्यम्- शूराः सन्ति सहस्रशः सुचरितैः पूर्णं जगत्पण्डितैः,
सङ्ख्या नास्ति कलाविदां बहुतरैः शान्तैर्वनान्ताः श्रिताः । त्यक्तुं यः किल वित्तमुत्तममतिः शक्नोति जीवाधिकम् ,
सोऽस्मिन् भूमिविभूषणं गुणनिधिर्भव्यो भवे दुर्लभः ॥२४४॥ काव्यम्- दानं दुर्गतिवारणं गुणगणप्रस्तारविस्तारणम् ,
तेजः सन्ततिधारणं कृतविपत्श्रेणीसमुत्सारणम् । अंहःसन्ततिदारणं भवमहाकूपारनिस्तारणम् ,
धर्माभ्युन्नतिकारणं विजयते श्रेयःसुखाकारणम् ॥२४५॥ काव्यम्- क्वचित्कामासक्तः क्वचिदपि कषायैरपहृतः,
क्वचिन्मोहग्रस्तः क्वचन वधनोपायनिरतः । न धर्मार्थं किञ्चित्सुचरितमगारी प्रकुरुते, परिभ्रष्टो दानात् स यदि न तदालम्बनमिह ॥२४६॥ लघुः काणोऽपि कुब्जोऽपि, दानादुपरि कर्करः । उपार्जकोऽपि पूर्णोऽपि, लोकेऽपि स्यादधो घटः ॥२४७॥
20
25