________________
5
10
15
20
25
]
हे भ्रातर्मम पत्नीं तां, केनोपायेन वालय । तर्हि मे जीवितं दत्तं प्राप्तं सर्वस्वमेव च ॥३५॥ प्रभातसमये जाते द्वारमुद्घाटितं तदा । यक्षाग्रे च कुमारेण, प्रारब्धमिति वर्च्चसम् ||३६|| कृतान्नाम्बुपरित्यागो, रागरङ्गविवज्जितः । निस्स्पृहो निरहङ्कारः, कुमारोऽसौ यतीन्द्रवत् ॥३७॥ एकाग्रं मानसं कृत्वा, धर्मदत्तकृते ततः । निविष्टो निश्चलो भूत्वा, दर्भसंस्तारके कृती ॥३८॥ युग्मम् ॥ एकचित्तेन सिद्धिः स्यात्, द्विधाचित्तो विनश्यति ।
चित्ते सुदृढता यस्य तस्य किं न हि सिध्यति ? ॥३९॥ एति प्रसन्नतां सर्वमेकचित्तेन सेवितम् । दरिद्रभक्त्या किं नाभूत्, राजपालो रमास्पदम् ? ॥४०॥ क्षत्रियो देवदत्ताख्यः, पुरेऽभूत् रथमर्द्दने । तस्य दैववशाज्जज्ञे, राजपालाभिधः सुतः ॥४१॥ तस्मिन् षाण्मासिके जाते, परलोकं गतः पिता । माताऽपि पञ्चवर्षीये, मरणं शरणं ययौ ॥ ४२ ॥ विषपुञ्जनिभं मत्वा, तं बालं स्वजनाः परे । सर्प्पवत् तत्यजुर्दूरमशरण्यं दयोज्झिताः ॥४३॥ सोऽपि स्वकर्मणा वृद्धि, पुपोष गिरिवृक्षवत् । प्रपन्नो यौवनावस्थां दध्यावित्यर्थवर्जितः ॥४४॥ यौवनं सफलं भोगैः भोगाः स्युः सफला धनैः । तद्विना मानुषं जन्म, जायते वनपुष्पवत् ॥४५॥ ततो देवानसौ नित्यं, नुनाव धनलोलुपः । न कोऽपि द्रव्यदानार्थमलम्भूष्णुरभूत् सुरः ॥४६॥
ततो जातविषादोऽसौ, तान् देवान् पूर्व्वयाचितान् । सावज्ञं तृणवत् कोपात् विचिक्राय चतुष्पथे ॥४७॥
[ धर्मकल्पद्रुमः
,