________________
तृतीयः पल्लवः ]
एवं मिथो विमृश्य द्वौ, स्मशाने शर्व्वरीमुखे । निविष्टौ धाष्टर्यमालम्ब्य निशाचरभयेऽपि च ॥२२॥ धर्मदत्तः सनिद्रोऽभूत्, जागर्त्ति क्षितिपाङ्गजः । दूरे तेन तदा दिव्यवाद्यगानरवः श्रुत: ॥२३॥ मुक्त्वा सुप्तं धर्मदत्तमभिज्ञानं पदे पदे । कुर्वन्शब्दानुसारेण, ययौ तत्र स कौतुकी ॥२४॥ ददर्शाग्रे च यक्षस्य, भवनं स्वर्विमानवत् । मध्येऽद्राक्षीत्ततो दत्तकपाटविवरेण सः ॥ २५ ॥ अष्टोत्तरशतं तत्र, नृत्यन्ति सुरकन्यकाः । तासां मध्ये ददर्शैकां नारीं सोऽधिकरूपिणीम् ||२६|| मुहूर्त्तं कौतुकं वीक्ष्य, व्यावृत्तोऽसौ कुमारकः । आगतो धर्मदत्तस्य, समीपे सोऽप्यजागरीत् ॥२७॥ स पृष्टो राजपुत्रेण, त्वयाऽहो मित्र ! साम्प्रतम् । सुप्तेनेह श्रुतं किञ्चिद् धर्मदत्तस्ततोऽवदत् ॥२८॥ शृगालव्यालशार्दूलोलूकशूकरखड्गिनाम् । पिशाचप्रेतभूतानां श्रुताः शब्दा मया घनाः ॥ २९ ॥ ततः स्मित्वा कुमारेण, नृत्यवार्त्ता प्रकीर्त्तिता । दिव्यरूपधरा चैका, प्रोक्ताभिज्ञानसंयुता ||३०|| तच्छ्रुत्वा धर्मदत्तस्तं, प्रत्यूचे सा मम प्रिया । घटते गम्यते तत्र, द्रुतं सा च विलोक्यते ॥३१॥ ततः स्थानाद् गतौ यावत् तौ द्वौ यक्षस्य वेश्मनि । न दृष्टं नर्त्तनं तावन्न दृष्टा सा च सुन्दरी ||३२|| हस्तौ प्रघर्षयन्धर्म्मदत्तः पप्रच्छ साऽबला । कियन्माना च कीदृक्षवर्णा च कतिवार्षिका ? ||३३|| स्वरूपं सकलं तस्याः कथितं भूपसूनुना । धर्म्मदत्तोऽवदत् स्वर्णनरेणालं वयस्य ! मे ||३४||
[ ७७
5
10
15
20
25