________________
७६]
[धर्मकल्पद्रुमः यतः- बप्पीयडु जल तं पीयइ, जं घण तुट्ठउ देइ ।
माणविवज्जउ धरपडई, मरइ न चञ्चू भरेई ॥१०॥ एक एव खगो मानी, सुखं जीवति चातकः ।
पिपासितो वा म्रियते, याचते वा पुरन्दरम् ॥११॥ 5 काव्यम्- कूपे पानमधोमुखं भवति मे नद्यो वराकाः स्त्रियः,
सामान्यं बकटिट्टिभैर्वरसरश्चैवं समालोच्य तत् । नादत्ते तृषितोऽपि नीचसलिलं क्रूरैर्वृतं जन्तुभिः, मानादुन्नतकन्धरोऽमरपतिं तद्याचते चातकः ॥१२॥ अतः स्वामिंस्त्वया नैव, वाच्यं मे हेमसङ्ग्रहे । इति तन्निश्चयं ज्ञात्वा, राजा चित्ते व्यचिन्तयत् ॥१३॥ चेन्ममाप्याश्रितस्यास्य, कार्यं सिद्धिं न यास्यति । तदाऽहं किं मुखं स्वीयं, दर्शयिष्यामि भूतले ? ॥१४।। ध्यात्वैवं बीटकं हस्ते, गृहीत्वैवमभाषत । मत्सभायां स कोऽप्यस्ति ?, यो वालयति पूरुषम् ॥१५॥ ततो राजसुतश्चन्द्रयशा बीटकमग्रहीत् । भूपं नत्वाऽवदच्चेति, वालयिष्यामि पूरुषम् ॥१६।। सविस्मयास्तदा लोकाश्चिन्तयन्ति स्म चेतसा(सि) । अहो कथं कुमारोऽसौ, वालयिष्यति पूरुषम् ? ॥१७।। अथ राजसभामध्यात् , धर्मदत्तनृपाङ्गजौ । चलितौ द्वावपि क्षिप्रं, तत्कार्यकरणेच्छया ॥१८॥ वने गत्वा विलम्बार्थमित्युक्तं राजसूनुना । देवेन दानवेनाथ, खेचरेण नरेण वा ॥१९॥ येन केन हृतो यावत् , ज्ञायते न हि पूरुषः । तावन्महोद्यमेनापि, कार्यसिद्धिर्भवेन्न हि ॥२०॥ अतो रात्रौ वने तत्र स्थीयते च्छन्नवृत्तितः । यथा ज्ञात्वा स्वरूपं तत् , क्रियते कार्यसाधनम् ॥२१॥
25