________________
तृतीयः पल्लवः ॥
§§ इन्दुः प्रीणकतां प्रतापमरुणो गाम्भीर्यमम्भोनिधिस्तुङ्गत्वं, कनकाचलो हिमगिरिः शैत्यं स्वतेजोऽनलः ।
ऐश्वर्यं धनदः शमञ्च ऋषयः सर्वंसहत्वं धरा,
सर्व्वे माङ्गलिकं व्यधुर्निजनिजं यस्मै स जीयान्नृपः ॥१॥ इत्याशिषं ददद् धर्म्मदत्तोऽथ नृपतिं प्रति । पुनरूचे मम स्वामिन् ! दीयते किञ्चिदुत्तरम् ॥२॥ राजोचे भो महाभागोपायः कोऽपि न दृश्यते । न जानीमो वयं केन, गृहीतः कानको नरः ? ॥३॥
ततः किमुत्तरं दद्मः ? परं मे वचनं शृणु । लक्षं स्वर्णस्य कोटिं वा, याचस्व त्वं निजेच्छया ||४|| यथा तद् दाप्यते कोशात् सन्तोषस्तव जायते । ममापि न भवेत् पश्चादपकीर्त्तिः कदाऽप्यहो ॥५॥ पश्चादपि कदा कुत्र, ज्ञास्यामि स्वर्णपूरुषम् । तुभ्यमेवापयिष्यामि, करिष्ये स्वस्थतां तव ॥६॥ श्रुत्वैवं धर्म्मदत्तोऽवक्, स्वर्णमस्तु घनं तव । युष्मद्धेम्ना न मे कार्यं, वाल्यते हेमपूरुषः ||७|| इत्युक्तेऽपि समर्थस्त्वं, यदि मद्वस्तुवालने । करिष्यसि प्रसादं न, तदभाग्यं ममास्ति वै ॥८॥ निर्वृतिर्मे तदैव स्यात्, यदा प्राप्नोमि मद्धनम् । त्वत्सुवर्णं न गृह्णामि, सद्भिर्मानो न मुच्यते ॥९॥
5
10
15
20