________________
1
5
[धर्मकल्पद्रुमः मत्पृष्ठे त्वं जलं पीत्वा, स्थित एव विभाव्यसे । दुःखस्योपरि यद् दुःखं, पात्यते मेऽग्रतोऽग्रतः ॥५१६॥ पर्वं पितवियोगश्च. पश्चात सागरपातनम ।
प्रियावियोग एतत् तु , किं त्वया विदधेऽधुना ? ॥५१७।। यतः- अघटितं घटनां नयति ध्रुवं, सुघटितं क्षणभङ्गरताकुलम् ।
जगदिदं कुरुते सचराचरं, विधिरहो बलवानिति मे मतिः ॥५१८॥ विलपन्निति दुःखात् स, पुनरेवमचिन्तयत् ।। मुषिता दुःखिता ये च, तेषां वै पार्थिवो गतिः ॥५१९॥ दुर्बलस्य बलं राजाऽतस्तं विज्ञापयाम्यहम् । अन्यथा कार्यसिद्धिर्मे, भविष्यति कदापि न ॥५२०।। यशोधवलराजानं, प्रत्यूचे धर्मदत्तकः । इति ध्यात्वा समुत्थाय, राजन् ! पार्वे तवागतः ॥५२१॥ राजन्नत्रैव वास्तव्यः, श्रीपतिश्रेष्ठिनः सुतः । धर्मदत्त सोऽहमेव, रावार्थमेष आगतः ॥५२२।। मत्कथा स्वर्णमूर्तेश्चोत्पत्तिस्ते कथिता मया ।
पञ्चमो लोकपालस्त्वं, यथा रुचिस्तथा कुरु ॥५२३।। यतः
दुष्टस्य दण्डः स्वजनस्य पूजा, न्यायेन कोशस्य च सम्प्रवृद्धिः । अपक्षपातोऽर्थिषु राष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम् ॥५२४॥ शत्रूणां तपन: सदैव सुहृदामानन्दनश्चन्द्रवत् , पात्रापात्रपरीक्षणे सुरगुरुर्दानेषु कर्णोपमः । नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रिया श्रीपतिः, स्वीये सत्यपि पक्षपातसुभगः स्वामी यथार्थो भवेत् ॥५२५॥ इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे मुख्यचतुःशाखिके प्रथमदानशाखायां धर्मदत्तकथासंयुते श्रीचन्द्रयशोनृपाख्याने
द्वितीयः पल्लवः समाप्तः ॥२॥
20