________________
द्वितीयः पल्लवः]
[७३ चिन्तितं धर्मदत्तेनैतत्कपटं ममोपरि । दुष्टेन योगिना तस्मात् प्रारब्धं कूटनाटकम् ॥५०३|| अधुना कोऽस्ति मे मित्रं, व्यसने पतिते सति ? । यः करिष्यति मे रक्षां, किं कर्त्तव्यं मया ततः ? ॥५०४।। येन दत्तोऽस्ति धर्मेण, तस्य धर्मस्य चिन्तनम् । धर्मदत्तः करोति स्म, परमेष्ठिस्मृति तथा ॥५०५।। परमेष्ठिनमस्कारं, सारं नवपदात्मकम् ।
आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥५०६॥ काव्यम्- सङ्ग्रामसागरकरीन्द्रभुजङ्गसिंहदुर्व्याधिवह्निरिपुबन्धनसम्भवानि ।
चौरग्रहभ्रमनिशाचरशाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥५०७॥ 10 ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सर्वसिद्धाणं, ममाङ्गे वज्रपञ्जरम् ॥५०८॥ इत्थं परममन्त्रेण, स्वाङ्गरक्षां चकार सः । सज्जीकृत्य ततः खड्गं, सावधानतया स्थितः ॥५०९।। यावदष्टोत्तरशता-हुतयः पूर्णतां गताः । वक्रीभूय तदालोक्य, योगी खड्गं करे दधौ ॥५१०।। तद् दृष्ट्वा धर्मदत्तेन, हतो योगी स लाघवात् । कुण्डमध्ये ततः क्षिप्तः, सिक्तः शीतोष्णवारिणा ॥५११।। योगी स्वर्णनरश्चाभूत् , धर्मदत्तस्ततः क्षणम् । गतो मठे जलं पीत्वा, पुनस्तत्र समागतः ॥५१२।। तावत् स्वर्णनरस्तत्र, न दृष्टो मूर्छितोऽपतत् । स शीतपवनैर्लब्धचैतन्यश्चेत्यचिन्तयत् ॥५१३।। अहो मया हतो योगी, किञ्चित् प्राप्तं फलं न च । पृथुकोऽगात् करे दग्धो, भ्रष्टो ह्युभयतोऽप्यहम् ॥५१४॥ चण्डालपाटके यातो, भिक्षापि चटिता न हि । अरे दैव ! त्वया चाहमेक एवोपलक्षितः ॥५१५।।
15
200