________________
७२]
5
40
[धर्मकल्पद्रुमः परोपकाराय कृतघ्नमेतच्चलं शरीरं यदि याति यातु । काचेन चेद्वज्रमणिं लभेत, मूर्योऽपि किं नेति पुनर्ब्रवीति ॥४९२॥ धर्मदत्तः पुनः प्राह, भगवन् ! विश्वपावन ! ।
तवेदृशी मतिः पुण्ये, यत्परार्थाय खिद्यति ॥४९३।। यतः- निष्पेषोऽस्थिचयस्य दुस्सहतरः कष्टं तुलारोपणम् ,
ग्राम्यस्त्रीकरलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा । मातङ्गोज्झितगल्लवारिकणिकापातश्च कूर्चाहतिः, कर्पासेन परार्थसाधनकृते किं किं न चाङ्गीकृतम् ? ॥४९४॥ योगिनोक्तं महाभाग ! सपादलक्षपर्वतात् । शीतमुष्णञ्च पानीये, आनीयेते प्रयत्नतः ॥४९५।। गत्वा द्वाभ्यां ततस्तत्रानीतं कुण्डाज्जलद्वयम् । कारितश्च ततो रक्ताञ्जनिकाकाष्ठजो नरः ॥४९६॥ नीत्वा होमस्य सामग्री, श्मशाने निशि योग्यसौ । गतः कृष्णचतुर्दश्यां, कुण्डे वह्निः कृतस्ततः ॥४९७।। विमुक्तः कुण्डकण्ठे स, रक्तचन्दनपुत्तलः । रक्षामिषेण तत्पार्वे, खड्गो मुक्तश्च योगिना ॥४९८।। कुमारं प्रति योग्यूचे, किमस्ति तव सन्निधौ । आयुधं लोहरक्षार्थं ? धर्मदत्तस्ततोऽब्रवीत् ॥४९९।। येनासिना मया पूर्वं, पापिष्ठो राक्षसो हतः । पार्वे गुप्तोऽस्ति खड्गोऽसौ, योगिनोक्तं न ते भयम् ॥५००।। पराङ्मुखं धर्मदत्तं, संस्थाप्य तस्य पृष्ठके । मुक्त्वा च पुत्तलं योगी, कुण्डकण्ठ उपाविशत् ॥५०१॥ सर्षपानक्षिपन्मन्त्रपूर्वकं काष्ठजे नरे । धर्मदत्तं चापि पृष्ठेऽताडयत् सर्षपाक्षतैः ॥५०२॥
20
१. नकारं न वदेदित्यर्थः ।