________________
७]
[धर्मकल्पद्रुमः विचिन्त्यैवमसौ पश्चाद्वलितोऽगाद्वनान्तरे । तत्र वारिफलाहारं, कुर्वंस्तस्थौ मृगेन्द्रवत् ॥४६६।। भ्रमन्नन्येधुरेकेन, दृष्टः पृष्टश्च योगिना । दृश्यसेऽहो सचिन्तस्त्वं, चिन्तां ते वद मेऽग्रतः ॥४६७।। धर्मदत्तोऽब्रवीद् देव ! निर्धनत्वे कुतः सुखम् ? । कथं भवामि निश्चिन्तो ?, यदि दारिद्रयपीडितः ॥४६८।। कपाली प्राह रे मां किं, न वेत्सि त्वमियद्दिनैः ? ।
दारिद्य्कन्दकुद्दाल, इति मे बिरुदं स्फुटम् ॥४६९।। गाहा- मयणदेव ईसर दहिउ, लङ्क दही हणुमेण ।
पाण्डुउवन अरजुन दहिउ, पुण दालिद्द न केण ॥४७०॥ दारिद्मदहनो नाम, मदीयं वर्त्तते भुवि । श्रुत्वा तद्धर्मदत्तोऽपि, हृष्टस्तं प्रणनाम च ॥४७१।। पृष्ठे दत्त्वा करं योगी, प्रोचे चिन्तां विमुञ्च भोः ! । लक्ष्मी तव गृहे दासी, करोमि स्वल्पकालतः ॥४७२।। अथोचे धर्मदत्तोऽपि, केनोपायेन हे विभो ! । करिष्यसि द्रुतं दासी, कमलां ? कथ्यतां मम ॥४७३।। योग्यूचे साधयिष्यामि, सद्दिने स्वर्णपौरुषम् । चिन्तितं धर्मदत्तेन, कार्या रक्षाऽऽत्मनो मया ॥४७४।। मामेव स्वर्णपुरुषं, मन्ये योगी करिष्यति । निःशूका योगिनः सर्वे, किलेदं श्रूयते पुरा ॥४७५॥ विचिन्त्येति स तं प्रोचे, त्वं योगिन् ! जीवघाततः । करिष्यसि नरं हैमं, कार्यं तन्नास्ति तेन मे ॥४७६।। योग्यवादीदरे हा हा, जीवघातं करोति कः? ।
ईदृशो नाथ(न्याय)मार्गो यद्रक्ष्यन्ते सर्वजन्तवः ॥४७७।। यतः- तत् श्रुतं यातु पातालं, तच्चातुर्यं विलीयताम् ।
ते विशन्तु गुणा वह्नौ , यत्र जीवदया न हि ॥४७८॥
25