________________
द्वितीयः पल्लवः]
[६९
10
ततश्चित्तभ्रमो जातः, सोऽजल्पन्मुक्तचेतनः । हे हंसकेकिसारङ्गाः ! सारङ्गाक्षी प्रिया क्व मे ? ॥४५४।। चम्पकाशोकनिम्बाम्रशालिपिष्पलपादपाः । गच्छन्तीं मे प्रियां दृष्ट्वा, शुद्धिं कथयत द्रुतम् ॥४५५।। इति जल्पन् पुनर्भ्रान्त्वा, सोऽगमत् शयनस्थितौ ।
एवं ग्रथिलवद् याति, प्रत्यायाति वदन्निति ॥४५६।। यतः- किङ्करोमि क्व गच्छामि ? रामो नास्ति महीतले ।
प्रियाविरहजं दुःखं, नान्यो जानाति मानवः ॥४५७॥ गाथा- ए संसार असारडउ, आशाबन्धणि जाइ ।
अनेरडइ करि सूईयइ, अनेरडइ विहाइ ॥४५८॥ यतः- यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि ।
स्वप्नवृत्तिरपि यत्र दर्लभा, लीलयैव विदधाति तद्विधिः ॥४५९॥ यतः- बुधजने विहिता च दरिद्रता, बत कृता च जरा वनिताजने ।
हतधवा सुनवा च कुलाङ्गना, विधिरहो बलवानिति मे मतिः ॥४६०॥ इत्यादि प्रलपन्नेष, स्वगृहं प्रति निर्ययौ ।। ततश्चन्द्रपुरं प्राप्य, प्रवेशेऽचिन्तयत् पुनः ॥४६१॥ हा मूढ ! धर्मदत्त ! त्वं, अनात्मज्ञ ! क्व यासि रे ? । निर्द्रव्यो भग्नपोतोऽहं, कथं यामि निजे गृहे ? ॥४६२॥ स्वजनानामभाग्योऽहं, दर्शयामि कथं मुखम् ? ।
दुर्जनाः सधनाः सर्वे, हसिष्यन्ति मुहुर्मुहुः ॥४६३।। यतः- वरं वनं व्याघ्रभुजङ्गसेवितं, द्रुमालये पुष्पफलाम्बुभोजनम् ।
भिक्षाशनं वा विषभक्षणं वरं, न बन्धुमध्ये धनहीनजीवितम् ॥४६४॥ यतः- कपिकुलनखमुखविदलिततरुतलपतितानि भोजनं प्रवरम् ।
न पुनर्धनमदगवितभ्रूभङ्गविकारिणी दृष्टिः ॥४६५॥
15
20
१. अनेरे करि. इति वा । २. फलानि इति गम्यम् ।