________________
८]
[धर्मकल्पद्रुमः ततस्तौ दम्पती तस्मात् स्थानकाच्चेलतुः शनैः । वासभूमौ च सम्प्राप्तौ, ग्रामाणि नगराण्यपि ॥४४३।। क्रमाच्चन्द्रपुरासन्ने, देशमध्ये च तौ गतौ । वनमध्येऽन्यदा सायं, श्रान्तौ सुप्तौ च निर्भयौ ॥४४४।। धर्मदत्तो जजागार, पाश्चात्यनिशि सोद्यमः । स्मृत्वा पञ्चनमस्कारं, धर्मध्यानं तथाऽकरोत् ॥४४५॥ अथ सूर्योदयात् पूर्वं, प्रियाजागरणाय सः ।
बभाषे हर्षमाश्रित्य, सूक्तमेवं महार्थकम् ॥४४६।। काव्यम्- प्रोज्जृम्भते परिमलः कमलावलीनां, शब्दायते क्षितिरुहोपरि ताम्रचूडः ।
शृङ्गं पवित्रयति मेरुगिरेविवस्वानुत्थीयतां सुनयने ! रजनी जगाम ॥४४७॥ प्रोक्त सूक्तेऽपि सा पत्नी, तदा दत्ते स्म नोत्तरम् । क्षणमेकं प्रतीक्षित्य, प्रबोधायाऽपठत् पुनः ॥४४८॥ एते व्रजन्ति हरिणास्तृणभक्षणाय, चूणि विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथाऽपि सुवहः किल शीतलः, स्यादुत्थीयतां प्रियतमे ! रजनी जगाम ॥४४९॥ यावत् सा नोत्तरं दत्ते, धर्मदत्तेन तावता । निरीक्षितं मुखं तस्या, दृष्टं किञ्चिन्न संस्तरे ॥४५०।। चिन्तितं देहचिन्तायै, नूनं पूर्वोत्थिता गता । क्षणमात्रं पुनः स्थित्वा, शब्दमुच्चैश्चकार सः ॥४५१॥ आगच्छागच्छ हे कान्ते ! वेगेन पथि गम्यते । न कोऽप्यागात तदोत्थाय. सोऽपश्यत सर्वतः पदान ॥४५२।। पदं न दृश्यते लग्नं, ततोऽसौ विविधार्तितः । भ्रान्त्वा भ्रान्त्वा वने श्रान्तः, क्वापि लब्धा न सा परम् ॥४५३।।
15
20
१. ल्यबभावश्चिन्त्यः ।