________________
द्वितीयः पल्लवः]
[६७ श्लोक:- न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः ।
लब्ध्वाऽपि मानुष्यमिदं समस्तं कृतं मयाऽरण्यविलापतुल्यम् ॥४३३॥ मानुषं भवमवाप्य दक्षिणावर्त्तशङ्खवदमुं भवाम्बुधौ ।
पूरयेत् सुकृतगङ्गवारिणा, पापवृत्तिसुरया न चोत्तमः ॥४३४॥ काव्यम्- पूजामाचरतां जगत्रयपतेः सङ्घार्चनां कुर्खतां,
तीर्थानामभिवन्दनं विदधतां जैनं वचः शृण्वतां । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृताम् , येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥४३५॥ यः प्राप्य दुष्प्रापमिदं नरत्वं, धर्मे प्रयत्नं न करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् ॥४३६॥ 10 न येषां धर्मार्थं भवति धनलाभः किल नृणां, न ये दुःखार्तेषु प्रकृतिकरुणाव्याकुलधियः । न वा यैरात्मार्थः सुचरितविधानविरचितो,
न तेषां जन्मेदं जननशतलाभोऽपि विफलः ॥४३७॥ काव्यम्- प्रत्यूषे प्रतिमा जिनस्य कलशः पूर्णो जलैरुज्ज्वलैः,
पुष्पस्रक्परिधाप्रदीपकलिकानैवेद्यमारात्रिकैः । भद्रं स्वस्ति नमो नमो जयजयेत्युच्चैर्वचांसि स्थितै
रित्येते शकुना भवन्ति भविनां गेहे वसन्त्याः श्रियः ॥४३८॥ यतः- मानुषत्वेऽपि संप्राप्ते, केचिन्निष्फलजन्मकाः ।
दीपोत्सवे कृता द्वारि, च्छगणस्येव पुत्रकाः ॥४३९॥ 20 न देवायतनं किञ्चिन्न चात्र मुनिदर्शनम् ।
सज्जनस्य च योगो ना-नार्यवज्जीव्यतेऽधुना ॥४४०॥ गाथा- जत्थ न दीसन्ति जिणा, न य भवणं नेव संघमुहकमलं ।
न य सुव्वइ जिणवयणं, किं ताए अत्थभूमीए ? ॥४४१॥ [ ] काव्यम्- तत्र धाम्नि निवसेद् गृहमेधी, सम्पतन्ति खलु यत्र मुनीन्द्राः। 25
यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥४४२॥