________________
६६1
[धर्मकल्पद्रुमः गृहीत्वासिं दृढं मुष्टौ, भूत्वाऽग्रे हक्कितः सुरः । रे राक्षस ! दुराचार ! रुष्टो दैवस्तवाधुना ॥४२०॥ श्रुत्वैवं यावदुत्तस्थौ, स कोपाकुललोचनः । तावत् द्राग् धर्मदत्तेन, हतश्च हस्तलाघवात् ॥४२१॥ ततो धनवती तस्य, भुजं पुष्पैरपूजयत् । स्वपतेः कुशलं वीक्ष्य, प्रमोदञ्च दधौ हृदि ।।४२२।। तौ निःशङ्कौ वने तत्र, द्राक्षाम्रकदलीफलैः । कृताहारौ सुखेनैव, युग्मिवत् संस्थितौ तदा ॥४२३।। राज्यतुल्यं वनमपि, स्वेच्छादिकसुखे भवेत् । विरहाद्यसुखे राज्यं, दुस्सहं काननादपि ॥४२४।। तथा मिथ: कथागाथाकाव्यप्रहेलिकादिभिः ।
कुर्व्वन्तौ कौतुकं कालं, तावगमयतां मुदा ॥४२५।। धर्मदत्त उवाच- अपूर्वोऽयं मया दृष्टः, कान्ते कमललोचने ! ।
मध्ये शो यदि जानासि, तदाऽहं तव सेवकः ॥४२६।। क्षणं विमृश्य नायूंचे, हुं ज्ञातं स्वामिनोदितम् । पतिरूचे कथं ? साऽऽह, 'अशोक' इति कथ्यते ॥४२७।। पत्नी प्रोचे मया प्रोक्तं, नाथ ! प्रश्नोत्तरं द्रुतम् । चेत् त्वं जानासि तन्नूनं, तवाहं पदरेणुका ॥४२८।। कथं संबोध्यते राजा, सुग्रीवस्य च का प्रिया । दरिद्रिणः किमिच्छन्ति, किङ्कर्व्वन्ति तपोधनाः ? ॥४२९।। विमृश्याथ पतिः प्रोचे, प्रिये ! ज्ञातं तवोदितम् । 'देवताराधनं' ह्येतत् , कर्तव्यं विबुधैः सदा ॥४३०॥ इत्थं विनोदतोऽत्यन्तं, गतः कालः कियानपि । अन्यदा वल्लभा प्रोचे, पति प्रति सुधम्मिणी ॥४३१॥ नाथात्र मृगवत् स्वीयं, यात्यायुर्धर्मवर्जितम् । आवयोर्वा वृथोत्पत्तिररण्ये मालती यथा ॥४३२॥
15
25